भीत्रार्थानां भयहेतुः
1-4-25 भीत्रार्थानां भयहेतुः आ कडारात् एका सञ्ज्ञा कारके अपादानम्
Sampurna sutra
Up
भीत्रार्थानां भयहेतुः कारकम् अपादानम्
Neelesh Sanskrit Brief
Up
भीत्यर्थकानां त्राणार्थकानां च धातूनां प्रयोगे "भयस्य कारणम्" कारकं अपादानसंज्ञं भवति । यथा - चोरात् बिभेति, चोरात् त्रायते ।
Kashika
Up
बिभेत्यर्थानां त्रायत्यर्थानां च धातूनां प्रयोगे भयहेतुर्यस्तत् कारकमपादानसंज्ञं भवति। चौरेभ्यो बिभेति। चौरेभ्य उद्विजते। त्रायत्यर्थानाम् — चौरेभ्यस्त्रायते। चौरेभ्यो रक्षति। भयहेतुरिति किम्? अरण्ये बिभेति। अरण्ये त्रायते॥
Siddhanta Kaumudi
Up
भयार्थानां त्राणार्थानां च प्रयोगे हेतुरपादानं स्यात् । चोराद् बिभेति । चोरात्त्रायते । भयहेतुः किम् ? अरण्ये बिभेति त्रायते वा ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं द्वितीयम् सूत्रम् । भीतिः तथा च त्राणम् (रक्षणम्) एतयोः क्रिययोः सन्दर्भे यः भयस्य कारणम् सः पदार्थः अपादानम् इति संज्ञां प्राप्नोति ।
क्रमेण विवरणम् एतादृशम् -
1. भीतिः - यस्मात् भयं जायते, तस्य अपादानसंज्ञा भवति । यथा - देवदत्तः चौरेभ्यः बिभेति । अत्र चौराः इति भयस्य कारणम्, अतः तस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । एवमेव, सर्पाद् भीः, सिंहाद् भयम्, वृश्चिकाद् भीतिः इत्यादिषु वाक्येषु अपि ज्ञेयम् ।
2. त्राणम् - यस्मात् जायमानात् भयात् रक्षणं क्रियते तस्य अपादानसंज्ञा विधीयते । यथा - देवदत्तः चौरेभ्यः धनं रक्षति । अत्र "चौराः धनम् अपहरिष्यन्ति" इति भीतिः मनसि वर्तते, अतश्च धनस्य चौरेभ्यः रक्षणम् अपि क्रियते । अनेन प्रकारेण अत्र भीतेः कारणम् चौराः इति; अतः चौरपदार्थस्य अत्र अपादानसंज्ञा भवति । एवमेव, दुःखात् त्रायते, असुरात् पाति, शत्रुभ्यः अवतात् इत्यादिषु वाक्येषु अपि ज्ञेयम् ।
"भीतेः यत् कारणम्" तस्मादेव "रक्षणम्" अपि भवति । अतः "यस्मात् रक्षणं भवति तस्य अपादानम्" इति उच्यते चेद् अपि न विशेषः दोषः ।
दलकृत्यम्
1. भीत्रार्थानाम् इत्यत्र अर्थग्रहणं किमर्थम् ? - सूत्रे भीत्रार्थानाम् इति पदे अर्थः इति शब्दः प्रयुक्तः अस्ति । अनेन इदं स्पष्टी भवति यत् केवलम् <<भी>> तथा <<त्रै>> इत्येतयोः द्वयोः धात्वोः विषये एव न, अपितु भीत्यर्थकानाम्, रक्षणार्थकानां च अन्येषां धातूनां विषये अपि प्रकृतसूत्रेण अवश्यम् एव अपादानसंज्ञा भवति । अतएव चोरात् विजते तथा च चोरात् रक्षति इत्यादिषु वाक्येषु अपि प्रकृतसूत्रेण अपादानसंज्ञा अवश्यमेव विधीयते ।
2. हेतुः इति किमर्थम् ? - भयस्य, एवमेव रक्षणस्य च सन्दर्भेण भयस्य यः हेतुः (कारणम्) तस्यैव निर्देशार्थम् अपादानसंज्ञा भवति - इति स्पष्टीकर्तुम् सूत्रे हेतु इति शब्दः प्रयुक्तः वर्तते । अतएव अरण्ये रक्षति / अरण्ये बिभेति इत्यत्र अरण्यपदार्थस्य अपादानसंज्ञा न भवति । अत्र भयस्य कारणम् अरण्यम् इति नास्ति अपितु अरण्ये विद्यमानाः पशवः दस्यवः वा सन्ति, अतश्च अत्र अरण्यशब्दस्य प्रकृतसूत्रेण अपादानसंज्ञा नैव सम्भवति ।
भाष्ये सूत्रस्य प्रत्याख्यानम्
भाष्यकारेण इदं सूत्रम् अनावश्यकम् अस्ति इति उक्त्वा अस्य सूत्रस्य प्रत्याख्यानं कृतं वर्तते । तत्र भाष्यविधानम् इदम् -
अयं योगः शक्योऽवक्तुम् । कथं वृकेभ्यो बिभेति दस्युभ्यो बिभेति, चोरेभ्यस्त्राते दस्युभ्यस्त्रायत इति ? ...य एष मनुष्यः प्रेक्षापूर्वकारी भवति स पश्यति - यदि मां वृकाः पश्यन्ति ध्रुवो मे मृत्युरिति । स बुद्ध्या संप्राप्य निवर्तते , तत्र <<ध्रुवमपायेऽपादानम्>> 1.4.24 इत्येव सिद्धम् । इह चौरेभ्यस्त्रायते दस्युभ्यस्त्रायत इति, य एष मनुष्यः प्रेक्षापूर्वकारी सुहृद्भवति स पश्यति - यदीमं चौराः पश्यन्ति ध्रुवमस्य वधबन्धनादिपरिक्लेशा इति । स बुद्ध्या संप्राप्य निवर्तयति । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम् - महाभाष्यम्
भयस्य हेतुः, इत्युक्ते यस्मात् पदार्थात् भयं जायते, तस्य पदार्थस्य सकाशे न गन्तव्यम् (तस्मात् दूरे एव स्थातव्यम्) इति चिन्तनं कृत्वा बुद्ध्या तस्मात् पदार्थात् आदौ एव निवृत्तिः क्रियते । अनेन प्रकारेण, यद्यपि अत्र साक्षात् अपायः नास्ति, तथापि अत्र बुद्धिकृतः अपायः अवश्यं वर्तते, अतश्च इदम् उपात्तविषयम् अपादानम् एव मत्त्वा ध्रुवमपायेऽपादानम्>> 1.4.24 इत्यनेनैव अत्र अपादानसंज्ञा अवश्यं भवितुम् अर्हति , अतश्च पृथक् सूत्रम् अत्र अनावश्यकम् एव - इति अत्र भाष्यकारस्य आशयः वर्तते ।
##Balamanorama
<<भीत्रार्थानां भयहेतुः>> - भीत्रा । चोराद्विभेतीति । चोरेण हेतुनेत्यर्थः । हेतुतृतीया प्राप्ता । चोरात्रायत इति । चोरेण हेतुना आत्मानं तत्कृतवधबन्धनादिनिवृत्त्यै रक्षतीत्यर्थः । यदा तु चोराद्विभेति=भीत्या निवर्तते, चोरात्रायते=आत्मानं त्रातु निवर्तयतीत्यर्थ आश्रीयते, तदा बुद्धिकल्पितविश्लेषावधित्वमादायापादानत्वं सिद्धमिति इदं सूत्रं भाष्ये प्रत्याख्यातम् ।
##Padamanjari
भयं भीः, त्राणं त्राः, सम्पदादित्वाद्भावे क्विप्। भीत्रौ अर्थौ येषां ते भीत्रार्थाः, षष्ठीप्रयोगापेक्षया कारकापेक्षया चेत्याह - बिभेत्यर्थानामित्यादि। अत्र बिभेतित्रायतिशब्दौ तदर्थयोर्वर्तेते, तदर्थोऽर्थो येषामित्यर्थः। त्राणं बाधकेभ्यो रक्षणम्, बाधकाश्च भयहेतव इति त्रार्थानामपि भयहेतुः कारकं भवत्येव। चोरेभ्य इति । चोरयतेः पचाद्यचि चोरः। क्वचित् चौरेभ्य इति पाठः। तत्र स्वार्थिकः प्रज्ञाद्यण्। च्छत्रादिषु वा चुराशब्दः पठ।ल्ते, स चाऽप्रत्ययादित्यस्य'ण्यासश्रन्थो युच्' इति युचि बाधके प्राप्ते तस्मादेव निपातनादकारप्रत्यये णिलुकि च व्युत्पाद्यते, ततश्चुरा स्तेयं शीलमस्येति णे कृते स एवार्थो भवति। बिभेतीति।'ञिभी भये' जुहोत्यादिः। उद्विजते इति। ठोविजीभयचलनयोःऽ तौदादिकोऽनुदातेत्। अरण्ये इति। अत्र तत्स्थेभ्यो वृक्षादिभ्यो भयम्, नारण्यात्। ननु च ध्रुवमित्यनुवर्तिष्यते, न चारण्यमविधित्वेन विवक्षितम्, परत्वाच्चाधिकरणसञ्ज्ञैव भविष्यति, सत्यम्; पूर्वस्यैवायं प्रपञ्चः, कथम्? भयादिपूर्विकायां निवृतौ भ्यादयो वर्तन्ते-बिभेतीति कोर्थः? भीत्या निवर्तत इत्यर्थः, त्रायत इति कोऽर्थः? चोरकृताद्वधादेस्त्राणेन निवर्तयतीत्यर्थः। कथं तर्हि चोरमध्यवर्तिनि चोरेभ्यो बिभेतीति प्रयोगः, न ह्यत्र निवृत्तिरस्ति? अत्रापि भीत्या निवर्तितुमिच्छतीत्यर्थो द्रष्टव्यः। तदेवं बुद्धिपरिकल्पितोऽपायोस्तीत्युपातविषयमिदमपादानमिति। कृतस्न एव प्रयोगप्रपञ्चे किमवयवपर्यनुयोगेन! ॥