वारणार्थानामीप्सितः

1-4-27 वारणार्थानाम् ईप्सितः आ कडारात् एका सञ्ज्ञा कारके अपादानम्

Sampurna sutra

Up

वारणार्थानाम् ईप्सितः कारकम् अपादानम्

Neelesh Sanskrit Brief

Up

"वारणं करोति" इत्यर्थकानां धातूनां प्रयोगे "यः पदार्थः ईप्सितः" तत् कारकम् अपादानसंज्ञं भवति । यथा - यवेभ्यः गां वारयति ।

Kashika

Up

वारणार्थानां धातूनां प्रयोगे य ईप्सितोऽर्थः, तत् कारकमपादानसंज्ञं भवति। प्रवृत्तिविघातो वारणम्। यवेभ्यो गा वारयति। यवेभ्यो गा निवर्तयति। ईप्सित इति किम्? यवेभ्यो गा वारयति क्षेत्रे॥

Siddhanta Kaumudi

Up

प्रवृत्तिविघातो वारणम् । वारणार्थानां धातूनां प्रयोगे ईप्सितोऽपादानं स्यात् । यवेभ्यो गां वारयति । ईप्सितः किम् ? यवेभ्यो गां वारयति क्षेत्रे ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं चतुर्थं सूत्रम् । वारयति (अवरोधं करोति) इत्यस्य प्रयोगे यः पदार्थः ईप्सितः (प्राप्तुम् इष्टः) अस्ति तस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । यथा, यदि काचित् गौः यवान् भक्षयितुम् यत्नं करोति, तर्हि अस्यां क्रियायाम् इप्सितः पदार्थः "यवः" इति विद्यते, अतश्च वारणक्रियायाः सन्दर्भेण यवपदार्थस्य अत्र प्रकृतसूत्रेण अपादानसंज्ञा भवति, येन यवेभ्यः गां वारयति इति प्रयोगः सिद्ध्यति । एवमेव, माता पुत्रम् मधुरात् वारयति, पिता माणवकम् अग्नेः वारयति इत्यादयः प्रयोगाः सिद्ध्यन्ति । कर्तुः ईप्सितः उत कर्मणः ईप्सितः? ईप्सित (= आप् + सन् + क्त) इति शब्दस्य अर्थः अभिलषितः, प्राप्तुम् इष्टः इति अस्ति । यवेभ्यः गां वारयति इत्यादिषु वाक्येषु यवानाम् ईप्सितत्वात् (प्राप्तुम् इष्टत्वात्) वारणक्रियायाः संदर्भेण प्रकृतसूत्रेण तेषाम् अपादानसंज्ञा भवति । अत्र वारणक्रियायाम् आहत्य त्रयः पदार्थाः वर्तन्ते -

  • 1. यः वारयति सः = कर्ता
  • 2. यस्य वारणं भवति तत् = कर्म
  • 3. यः ईप्सितः पदार्थः = अपादानम् । अत्र सहजः एव प्रश्नः उदेति - कस्य ईप्सितः ? कर्तुः ईप्सितः उत कर्मणः ईप्सितः ? - इति । अस्य उत्तरम् अस्ति - ईप्सित इति शब्दस्य अन्वयः कर्तृपदेन सह अपि कर्तुं शक्यते, अथ वा कर्मपदेन अपि कर्तुं शक्यते । यथा, देवदत्तः यवेभ्यः गां वारयति इत्यत्र -
  • 1. "देवदत्तस्य ईप्सिताः यवाः सन्ति, अतः गौः तान् न खादेत् इति हेतुना देवदत्तः गां यवान् प्रति गन्तुम् अवरुणद्धि" - इति आशयः स्वीक्रियते चेत् कर्तुः यद् ईप्सितम्, तस्मात् कर्मणः वारणम् क्रियते इति अर्थः सम्भवति ।
  • 2. "गोः ईप्सिताः यवाः सन्ति, अतः गौः तां खादितुम् प्रयतते ; तस्मात् कार्यात् देवदत्तः गाम् अवरुणद्धि:" - इति आशयः स्वीक्रियते चेत् कर्मणः यद् ईप्सितम् तस्मात् कर्मणः एव वारणं क्रियते - इति अर्थः सम्भवति । अनेन प्रकारेण कस्यापि ईप्सिततत्वं स्वीकृत्य प्रकृतसूत्रस्य प्रयोगः अवश्यं कर्तुं शक्यते । तथापि सामान्यरूपेण कर्मणः ईप्सितम् इत्यस्मिन् पक्षे उदाहरणानि सरलरूपेण घटन्ति, अतश्च भाष्ये अपि अस्यैव अर्थस्य पुरस्कारः कृतः दृश्यते । अस्मिन् विषये अधिकं पिपठिषवः सिद्धान्तकौमुद्याः बालमनोरमाव्याख्यानं पश्येयुः । <hl>वारणम्</hl> इति शब्दस्य अर्थः सिद्धान्तकौमुद्यां वारणम् इति शब्दस्य अर्थः प्रवृत्तिविघातः इति दीयते । प्रवृत्तिः इत्युक्ते ईप्सितं पदार्थं प्राप्तुम् कृतः यत्नः । अस्मात् यत्नात् कृतः विघातः (विरोधः) वारणम् इत्यनेन निर्दिश्यते । यथा गोः "यवाः" इति ईप्सितः पदार्थः, अतः गौः यवान् प्रति गन्तुं प्रयतते । एतादृशी गौः यवानां समीपे नैव गच्छेत् इति हेतुना कृतः यत्नः एव वारणम् नाम्ना ज्ञायते । अस्यां क्रियायाम् ईप्सितपदार्थस्य (इत्युक्ते, यवानाम्) प्रकृतसूत्रेण अपादानसंज्ञा भवति, अतश्च यवेभ्यः गां वारयति इति प्रयोगः सिद्ध्यति । दलकृत्यम् 1. ईप्सितः इति किमर्थम् ? - वारणक्रियायां यः पदार्थः ईप्सितः नास्ति तस्य अपादानसंज्ञा न भवति । यथा, देवदत्तः क्षेत्रे यवेभ्यः गां वारयति इत्यत्र गोः कृते "क्षेत्रे विद्यमानाः यवाः" ईप्सिताः सन्ति, क्षेत्रम् स्वयं न । देवदत्तस्य कृते अपि, वारणक्रियायाः सन्दर्भेण "क्षेत्रम्" इति ईप्सितम् न, अपितु तत्रस्थाः "यवाः" एव ईप्सिताः । अतश्च अत्र क्षेत्रपदार्थस्य प्रकृतसूत्रेण अपादानसंज्ञा न भवति । <pv> भाष्ये सूत्रस्य प्रत्याख्यानम् भाष्यकारेण "इदं सूत्रम् अनावश्यकम् अस्ति" इति उक्त्वा अस्य सूत्रस्य प्रत्याख्यानं कृतं वर्तते । तत्र भाष्यविधानम् इदम् - अयमपि योगः शक्योऽवक्तुम् । कथं माषेभ्यो गा वारयतीति ? पश्यत्ययं यदीमा गावस्तत्र गच्छन्ति ध्रुवः सस्यविनाशः, सस्यविनाशेऽधर्मश्चैव राजभयं च । स बुद्ध्या सम्प्राप्य निवर्तयति । तत्र <<ध्रुवमपायेऽपादानम्>> 1.4.24 इत्येव सिद्धम् । - महाभाष्यम् माषेभ्यः गां वारयति इत्यादिषु प्रयोगेषु "गौः माषान् प्रति न गच्छेत्" इति हेतुना कर्ता आदौ बुद्धौ "माषेभ्यः गौः पृथक् एव तिष्ठेत्" इति चिन्तयित्वा तदनन्तरं तादृशीं स्थितिं प्रत्यक्षीकर्तुं गां वारयति । इत्युक्ते, अत्र वारणक्रियायां बुद्धिकृतः अपायः अवश्यं वर्तते, अतश्च इदम् उपात्तविषयम् अपादानम् एव मत्त्वा ध्रुवमपायेऽपादानम्>> 1.4.24 इत्यनेनैव अत्र अपादानसंज्ञा अवश्यं भवितुम् अर्हति , अतश्च पृथक् सूत्रम् अत्र अनावश्यकम् एव - इति अत्र भाष्यकारस्य आशयः वर्तते । ##Balamanorama <<वारणार्थानां ईप्सितः>> - वारणार्थानामीप्सितः । प्रवृत्तिविमुखीकरणं वारणम् । यवेभ्य इति । यवेषु प्रवर्तितुकामां गां प्रवृत्तिविमुखीकरोतीत्यर्थः । संयोगपूर्वकविश्लेषाऽभावात् 'ध्रुवमपाये' इत्यप्राप्ताविदं वचनम् । तत्र यवानां स्वकीयतया संरक्षणीयत्वेन ईप्सितत्वादपादानत्वं, न तु गोः, तस्याः परकीयत्वेनानीप्सितत्वात्, वारणीयतया ईप्सितत्वाव्याघाताच्च । तथा च तथायुक्तं चेति गोः कर्मत्वाद्द्वितीया । यदा तु यवाः परकीयाः, गौस्तु स्वकीया, तदा वारणमसंभावितमेव । वस्तुतस्तु यवानां परकीयत्वेऽपि तद्विनाशादधर्मः स्यात्, यवस्वामी गामपहृत्य बध्नीयात्, गोस्वामिनं च यवस्वामी दण्डयेत्, अतो यवानां रक्षितुमिष्टत्वादीप्सितत्वादपादानत्वमस्त्येव । गोस्तु स्वकीयत्वेऽपि बाधकनिवृत्त्यै वारयितुमिष्टतमत्वात्कर्मत्वम् । न च गोरीप्सिततमत्वेऽपि ईप्सितत्वस्यापि सत्त्वादपादानत्वं किं न स्यादिति वाच्यम्, ईप्सिततमत्वेवारणार्थानामित्यपादानत्वं बाधित्वाकर्तुरीप्सिततममिति कर्मत्वस्यैव परत्वात्प्राप्तेः । न च वारणार्थानामीप्सितः इत्यपादानत्वस्यकर्तुरीप्सततममिति कर्मत्वापवादत्वं शङ्क्यं,कर्तुरीप्सिततममिति कर्मत्वं हि ईप्सिततममात्रविषयम् । वारणार्थानामित्यपादानत्वं तु ईप्सितविषयम् । तस्य प्रकृते ईप्सितेषु यवेषु परकीयेषु सावकाशत्वान्नकर्तुरीप्सततममिति कर्मत्वापवादत्वम् । अतः परत्वाद्गोः स्वकीयायाः परकीययवापेक्षया ईप्सिततमत्वात्कर्मत्वमेव । न च अग्नेर्माणवकं प्रवृत्तिविमुखीकरोतीति हि तदर्थः । तत्राग्निस्पर्शे माणवकस्य दाहप्रसङ्गात्तद्विषयप्रवृकत्तिविमुखीकरणात्मकवारणक्रिययाऽऽप्तुमिष्टतमत्वेन वारयितुरीप्सिततमत्वान्माणवकस्य कर्मत्वम् । अग्नेस्तु वारणक्रियेप्सिततममाणवकीयस्पर्शक्रियया आप्तुमिष्टतमत्वेऽपि वारयितुरीप्सिततत्वादपादानत्वम् । एतेन तयोः पृथग्ग्रहणेन । एतावतैव हरिं भजति, ग्रामं गच्छंस्तृणं स्पृशति, विषं भुङ्क्ते इत्यादिसर्वलक्ष्यसङ्ग्रहादिति निरस्तम् । कर्तृव्यापारजन्यफलाश्रयः कर्मेत्युक्तौ हि वारणार्थानामिति सूत्रमस्यापवादः स्यात्, विशेषविहितत्वात् । तथाच माणवकस्य कर्मत्वं न स्यात् । न चाग्नौ वारणार्थानामिति सावकाशमिति वाच्यं, वारयतेरत्र स्पर्शफलकप्रवृत्तिविघटनमर्थः । तच्चान्यतो नयनादिरूपम् । तादृशव्यापारप्रयोज्यफलं माणवककर्तृकस्पर्शफलकप्रवृत्तिविरहः । तत्र स्पर्शांशोऽग्निनिष्ठः माणवकनिष्ठश्च, संयोगरूपस्य स्पर्शस्य द्विनिष्ठत्वात् । प्रवृत्तिविरहश्च विषयतयाऽग्निनिष्ठः, आश्रयतया माणवकनिष्ठश्च । तथा च कर्तृव्यापारप्रयोज्यफलाश्रयत्वलक्षणकर्मत्वस्य परत्वादुभयत्रापि प्राप्तौ वारणार्थानामित्यपादानत्वं निरवकाशत्वादपवादः स्यादिति माणवकादपि पञ्चमी स्यात्, तद्बाधनार्थं कर्तुरीप्सिततमं कर्मेत्यारब्धव्यम् । एवं च ईप्सितमात्रेऽग्नौ सावकाशस्यापादानत्वस्य परत्वादीप्सिततमे माणवके बाधः सिध्यति । कर्तुरीप्सिततममित्यारब्धे च द्वेष्योदासीनसङ्ग्रहार्थं तथायुक्तमित्यप्यारब्धव्यमित्यास्तां तावत् । भाष्ये तु बुद्धिकल्पितसंयोगविश्लेषकृतमपादानत्वामाश्रित्य प्रत्याख्यातमिदं सूत्रम् । ##Padamanjari ईप्सितशब्दोऽयमस्त्यभिप्रेतपर्यायः, तस्य ग्रहणे यवानामान्मीयत्वे गवां च परकीयत्व एव स्याद्, न विपर्यते? न खल्वस्यैतदभिप्रेतं यदुतात्मीया गावः परकीयान्यवान्मा घसन्निति, मा भूवन्यवा वारयितुमीप्सिताः; वार्यमाणानां तु गवामीप्सिताः, न वात्र विशेषः श्रुतः कर्तुरीप्सित इति। इह तर्हि न स्याद्-अग्नेर्माणवकं वारयति कूपादन्धमिति, न ह्यग्रिकूपौ वारयितुर्वार्यमाणस्य वाभिप्रेतौ? क्रियाशब्दस्य तु ग्रहणे वार्यमाणस्यान्थादेर्गमनादिक्रियया कूपादेराप्यमानत्वात् सिद्ध्यति, अन्धश्चापश्यन्नपि गन्तव्यं जिगमिषति, अन्यथा न क्वचितस्य प्रवृत्तिः स्यात्। यवेभ्यो गा वारयतीति।'वृञ् आवरणे' चुरादिः। अथात्र गवामपादानसंज्ञा कस्मान्न भवति, ईप्सिततमोऽपीप्सितो भवत्येव, यथा शुक्लतमोऽपि शुक्लः? परत्वात्कर्मसंज्ञा भविष्यति। कर्मसंज्ञाया अवकाशः- वारणार्थेभ्योऽन्यत्र, अपादानसंज्ञायास्तु प्रकर्षरहितमीत्सितम्, इप्सिततमस्य तूभयप्रसङ्गे परत्वात्कर्मसंज्ञा। अयमपि प्रपञ्चः, अस्ति ह्यत्रपि बुद्धिव्यवस्थितोऽपायः, कथम्? पश्यत्ययम्-यदि गावः क्षेत्रे गच्छेयुर्ध्रुवं सस्यविनाशः, सस्यविनाशेऽधर्मश्च राजभयं च; स बुद्ध्या संप्राप्य नविर्तयतीत्यतो न चोदनीयम्-प्रत्युदाहरणे क्षेत्रस्याधिकरणसंज्ञा भविष्यतीति॥