1-2-63 तिष्यपुनर्वस्वोः नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्
छन्दसीति निवृत्तम्। तिष्य एकः पुनर्वसू द्वौ, तेषां द्वन्द्वो बह्वर्थः। तत्र बहुवचने प्राप्ते द्विवचनं विधीयते। तिष्यपुनर्वस्वोर्नक्षत्रविषये द्वन्द्वे बहुवचनप्रसङ्गे नित्यं द्विवचनं भवति। उदितौ तिष्यपुनर्वसू दृश्येते। तिष्यपुनर्वस्वोरिति किम्? विशाखानुराधाः। नक्षत्र इति किम्? तिष्यश्च माणवकः पुनर्वसू माणवकौ तिष्यपुनर्वसवो माणवकाः। ननु च प्रकृतमेव नक्षत्रग्रहणं किमर्थं पुनरुच्यते? पर्यायाणामपि यथा स्यात्। तिष्यपुनर्वसू। पुष्यपुनर्वसू। सिद्ध्यपुनर्वसू। द्वन्द्व इति किम्? यस्तिष्यस्तौ पुनर्वसू येषां त इमे तिष्यपुनर्वसवः। उन्मुग्धास्तिष्यादय एव विपर्ययेण दृश्यमाना बहुव्रीहिणोच्यन्ते। तेन नक्षत्रसमास एवायम्। बहुवचनस्येति किम्? एकवचनस्य मा भूत्, तिष्यपुनर्वसु इदमिति। <<सर्वो द्वन्द्वो विभाषैकवद् भवति>> इत्यस्यैतदेव ज्ञापकम्। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्॥
बहुत्वं द्वित्ववद्भवति । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू । तिष्येति किम् । विशाखानूराधाः । नक्षत्रेति किम् । तिष्यपुनर्वसवो माणवकाः ॥
<<तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्>> - तिष्यपुनर्वस्वो । विशाखानुराधा इति । विशाखे च अनुराधाश्चेति विग्रहः । तिष्यपुनर्वसव इति । तिष्यश्च पुनर्वसू चेति विग्रहः । तिष्यशब्दात्पुनर्वसुशब्दाच्च 'नक्षत्रेण युक्तः' इत्यण् । 'लुबविशेषे' इति लुप् । ततो जातार्थे सन्धिवेलाद्यण् ।श्रविष्ठाफल्गुनी॑त्यादिना लुक् ।जात्याख्याया॑मित्यादिचतुःसूत्र्या अत्र सङ्गतिश्चिन्त्या ।
तिष्यपुनर्वस्वौः इत्यनेनैव सूत्रेण द्विचनापेक्षया सप्तमीद्विवचनम् । नक्षत्रद्वन्द्वे इति सत्सप्तमीः; नक्षत्रद्वन्द्वे सति तिष्यपुनर्वस्वोरर्थयोर्द्वयोरिवोक्तिर्भवतीति द्वन्द्वापेक्षया षष्ठीद्विवचनं वा । तेषां द्वन्द्व इति । अत्र तच्छब्दाद् द्विवचनं न भवति, वाक्यस्य प्रस्तुतत्वादद्वन्द्वार्थवृत्तित्वाद् । अत्र पारिभाषिकयोर्द्विवचनबहुवचनयोर्ग्रहणे बहुवचनस्य द्विवचनमादेशः स्यात् । तत्र जसादेशे प्रथमाद्विवचने ऽजसि चऽ इति गुणः स्यात्, विशेषणानां च न स्यादिति मत्वाह-बहुवचनस्य प्रसङ्ग इति । बहूनामर्थानामुक्तिप्रसङ्ग इत्यर्थः । द्विवचनं भवति । द्वयोरिवोक्तिर्भवतीत्यर्थः । तिष्यपुनर्वसवो माणवका इति । तिष्यपुनर्वसुशब्दाभ्यां नक्षत्रणो लुपि जातार्थे सन्धिवेलादिसूत्रेणाअण्, तस्य ऽश्रविष्टाफल्गुन्यनुराधाऽ इत्यादिना लुक् । नात्र द्वन्द्वो नक्षत्रे वर्तते, किं तर्हि ? माणवकेषु । तत्रापि न गौणः; योगपरम्परया वृतेः । पर्यायाणामपीति । पुनर्नक्षत्रग्रहणसामर्थ्यादर्थस्यैवायमनपेक्षितोपातशब्दास्यातिदेशो भवति, तेन पर्यायाणामपि ग्रहणं सिद्ध्यति । द्वन्द्व इति किमिति । तिष्यश्च पुनर्वसूचेति वाक्ये समासेऽप्युतरपदार्थप्रधाने बहुत्वं न सम्भवति, तादृशः समासश्च न सुलभः, बहुव्रीहिश्च न सम्भवति व्यधिकरणत्वात्, ऽसंख्यापूर्वो द्विगुःऽ अप्यपूर्वोऽव्ययपूर्वः, अव्ययीभावश्चासम्भाव्य एवेति द्वन्द्व एव भविष्यतीति मन्यते । यस्तिष्य इत्यादि । अवयवेन विग्रहे उद्भूतावयवभेदः समुदायझ समासार्थः । उन्मुग्धाः पुरुषास्तदाह-तिष्यादय एवेति । क्विचितु इमे तिष्यपुनवसवो मगधा इति पठ।ल्ते, तत्रापि वैकृत्यवचनामुहेः कर्तरि क्तः, अविविक्ता इत्यर्थः । ऋतवो मुह्यन्तीति यथा । नक्षत्रसमास एवायमिति । समुदायसमुदायिनोरभेदादिति भावः । सर्वो द्वन्द्व इति । ननु च एकवद्भावप्रकरणे प्राण्यङ्गादीनां समाहार एव द्वन्द्वः, दधि-पयाअदौनामितरेतरयोग एवेति नियम आश्रितः; ततश्च तस्मिन् प्रकरणेऽनुपातानाम् ऽचाथेद्वन्द्वःऽ इत्येव समाहारेतरेतरयोगयोर्द्वन्द्वसिद्धः, किं ज्ञापकोपन्यासेन ? सत्यम्; विपरीतोऽपि नियमः सूत्रे सम्भाव्येत - प्राण्यङ्गादीनामेव समाहार इति । तस्माद्वहुवचनग्रहणेन प्राण्यङ्गादीनां नियम्यत्वं ज्ञाप्यते । वृक्षादिविभाषाप्रयोजनं तत्रैव वक्ष्यामः ॥