ग्राम्यपशुसंघेष्वतरुणेषु स्त्री

1-2-73 ग्राम्यपशुसङ्घेषु अतरुणेषु स्त्री एकशेषः

Kashika

Up

index: 1.2.73 sutra: ग्राम्यपशुसंघेष्वतरुणेषु स्त्री


ग्राम्याणां पशूनां सङ्घाः ग्राम्यपशुसङ्घाः। एतेषु सहविवक्षायां स्त्री शिष्यते। पुमान् स्त्रिया 1.2.67 इति पुंसः शेषे प्राप्ते स्त्रीशेषो विधीयते। अतरुणग्रहणम् सामर्थ्यात् पशुविशेषणम्। गाव इमाः। अजा इमाः। ग्राम्यग्रहणं किम्? रुरव इमे। पुषता इमे। पुशुषु इति किम्? ब्राह्मणाः। क्षत्रियाः। सङ्घेषु इति किम्? एतौ गवौ चरतः। अतरुणेसु इति किम्? वर्सा इमे। वर्करा इमे। अनेकशफेष्विति वक्तव्यम्। इह मा भूत्। अश्वा इमे। इति स्रीजयादित्यविरचितायं काशिकायां वृत्तौ प्रथमाध्यायस्य द्वितीयः पादः।

Siddhanta Kaumudi

Up

index: 1.2.73 sutra: ग्राम्यपशुसंघेष्वतरुणेषु स्त्री


एषु सहविवक्षायां स्त्री शिष्यते । पुमान् स्त्रिया <{SK933}> इत्यस्यापवादः । गाव इमाः । ग्राम्येति किम् । रुरव इमे । पशुग्रहणं किम् । ब्राह्मणाः । सङ्घेषु किम् । एतौ गावौ । अतरुणेषु किम् । वत्सा इमे ।<!अनेकशफेष्विति वाच्यम् !> (वार्तिकम्) ॥ अश्वा इमे । इह सर्वत्रैकशेषे कृतेऽनेकसुबन्ताभावाद् द्वन्द्वो न । तेन शिरसी शिरांसि इत्यादौ समासस्येत्यन्तोदात्तः प्राण्यङ्गत्वादेकवद्भावश्च न । पन्थानौ पन्थान इत्यादौ समासान्तो न ॥। इति एकशेषसमासप्रकरणम् ।

Balamanorama

Up

index: 1.2.73 sutra: ग्राम्यपशुसंघेष्वतरुणेषु स्त्री


ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री - ग्राम्यपशु । एष्विति । तरुणभिन्नेषु ग्राम्याणां पशूनां सङ्घेष्वित्यर्थः । इह अनपुंसकेनेत्यनुवर्तनादाहपुमान्स्त्रियेत्यस्यापवाद इति । गौश्च गौश्च गौश्चे॑ति पुंलिङ्गस्त्रीलिङ्गेषु गोशब्देषु सहविवक्षितेषुपुमान् स्त्रिये॑त्यतद्बाधित्वा स्त्री शिष्यत इति भावः । ननु स्त्रीशेषे पुंशेषे वा न कोऽपि रूपभेद इत्यत आह — इमा इति । अनुप्रयोगे रूपभेदः फलमिति भावः । 'त्यदादितः शेषे' इति न भवति, 'गाव इमाः' इतिभाष्यप्रयोगादित्याहुः । रुरव इमे इति । रुरुः — कृष्णाख्यो मृगः । अग्राम्यपशुत्वान्न स्त्री शिष्यते । किंतुपुमान् स्त्रिये॑त्येकशेषः । ततश्चानुप्रयोगे 'इमे' इति पुंलिङ्गत्वमेव । ब्राआहृणा इमे इति । ब्राआहृणी च ब्राआहृणाश्चेति विग्रहः । अपशुत्वान्न स्त्रीशिष्यते, किन्तुपुमान् स्त्रिये॑त्येकशेषः । अन्यथा 'ब्राआहृण्य इमा' इति स्यात् । एतौ गावाविति । स्त्रीलिङ्ग पुंलिङ्गयोः सबोक्तावसङ्घत्वान्न स्त्री शिष्यते । सङ्घशब्दो हि बहूनां समुदाये वर्तते, अन्यथा एकशेषस्यानेकविषयत्वादेवाऽनेकपरिग्रहे सिद्धे किं तेनेति भावः । स्त्रीशेषे तु 'एते' इत्यनुप्रयोगे रूपं स्यात् । वत्सा इमे इति । वत्साश्च वत्साश्चेति विग्रहः । तरुणत्वान्न स्त्री शिष्यते । अन्यथा 'वत्सा इमा' इत्यनुप्रयोगः स्यात् । अनेकशफेष्विति वाच्यमिति । वार्तिकमिदम् । एकशफा अआआदयः, तेषां सहोक्तौग्राम्यपइआ॑ति न भवति । अआआ इमे इति । एकशफत्वान्न स्त्री शिष्यते । ततश्चानुप्रयोगे पुंलिङ्गत्वमिति भावः । ननुसरूपाणा॑मिति सूत्रेतिष्यपुंनर्वस्वोर्नक्षत्रद्वन्द्वे॑ इत्यतो द्वन्द्वग्रहणानुवृत्त्या द्वन्द्वे एकशेष इति भाष्यात्कृते द्वन्द्वे एकशेषः । स्यादित्यत आह — इहेति । इहोदाहृतेषु एकशेषविषयोषु सर्वत्र प्रसक्तं द्वन्द्वमनवकाशत्वादेकशेषो बाधते । कृते त्वेकशेषेऽनेकाभावाद्द्वन्द्वो नेत्यर्थः ।द्वन्द्वसमासे एकशेष॑ इति भाष्यं तु द्वन्द्वे प्रसक्ते सहविवक्षायामेकशेष इति व्याख्येयम् । ननु कृत एव द्वन्द्वे एकशेषो भवतु, का हानिरित्यत आह — तेनेति । द्वन्द्वात् प्रागेवैकशेषाश्रयणेनेत्यर्थः । कृते द्वन्द्वे एकशेषाभ्युपगमे 'शिरसी' इति द्विवचने शिरांसीति, बहुवचने च समासस्येत्यन्तोदात्तः स्यात्, प्राण्यङ्गत्वात्द्वन्द्वश्च प्राणी॑त्यादिना एकवद्भावश्च स्यादित्यर्थः । आदिना शिरोभ्यां शिरोभिरित्यादिसङ्ग्रहः । पन्थानाविति । द्वन्द्वे कृते एकशेषाभ्युपगमे पन्थानौ पन्थानः, पथिभ्यां पथिभि॑रित्यादौऋक्पू॑रित्यप्रत्ययः समासान्तः स्यादिति भावः । नचात्रइतोऽत्सर्वनामे॑ति सर्वनामस्थाने परेऽकारविधानाल्लिङ्गात्समासान्तः सुपरिहरः ।इतोऽदि॑त्युक्तेऽपि सावित्यनुवत्र्य 'पन्था' इति सिद्धेरिति वाच्यं,पथो विभाषे॑ति समासान्ताऽभावेऽपन्थानावित्यादौइतोऽदि॑ति सूत्रस्य सावकाशत्वात् । *इति बालमनोरमायाम् एकशेषप्रकरणम् ।***

Padamanjari

Up

index: 1.2.73 sutra: ग्राम्यपशुसंघेष्वतरुणेषु स्त्री


ग्रामे भवा ग्राम्याः । ऽग्रामाद्यखञौऽ । पुंसः शेषे प्राप्त इति । ऽपुमान् स्त्रियाऽ इत्यनेन । सामर्थ्यादिति । प्रधानस्य संघस्य तारुण्यातारुण्ये न सम्भवत इत्यस्मात्सामर्थ्याद् गुणभूतानामपि पशूनां विशेषणमित्यर्थः । एतौ गावाविति । यद्यपि द्वयोरपि संघो भवत्येव, तथापीह संघग्रहणसामर्थ्यांद्वहूनां संघो गृह्यते, अन्यथा शेषस्यानेकविषयत्वाद् अनर्थकं न स्यात् । अनेकशफेष्विति । शफाः उ खुराः । उष्ट्राणां त्वारण्यत्वादेकशेषाभावः ॥ इति श्रीहरदतदमिश्रविरचितायां पदमञ्जर्यो प्रथमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥