द्वन्द्वे च

1-1-31 द्वन्द्वे च सर्वादीनि सर्वनामानि समासे

Sampurna sutra

Up

index: 1.1.31 sutra: द्वन्द्वे च


सर्वादीनि द्वन्द्वे न सर्वनामानि

Neelesh Sanskrit Brief

Up

index: 1.1.31 sutra: द्वन्द्वे च


सर्वादिगणस्य शब्दैः द्वन्द्वसमासेन निर्मितः शब्दः सर्वनामसंज्ञकः न भवति ।

Neelesh English Brief

Up

index: 1.1.31 sutra: द्वन्द्वे च


The words formed by the समास of the words of सर्वादिगण are not called सर्वनाम.

Kashika

Up

index: 1.1.31 sutra: द्वन्द्वे च


द्वन्द्वे च समासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति । पूर्वापराणाम्, कतरकतमानाम् ॥

Siddhanta Kaumudi

Up

index: 1.1.31 sutra: द्वन्द्वे च


द्वन्द्वे उक्ता संज्ञा न । वर्णाश्रमेतराणाम् । समुदायस्यायं निषेधो न त्ववयवानाम् । नचैवं तदन्तविधिना सुट्प्रसङ्गः । सर्वनाम्नो विहितस्यामः सुडिति व्याख्यातत्वात् ॥

Neelesh Sanskrit Detailed

Up

index: 1.1.31 sutra: द्वन्द्वे च


व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । सर्वादीनि सर्वनामानि 1.1.27 इत्यस्मात् सूत्रात् आरभ्य अन्तरं बहिर्योगोपसंव्यानयोः 1.1.36 इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं पञ्चमं सूत्रम् । इदं निषेधसूत्रम् अस्ति । सर्वादिगणस्य शब्दौ यस्य अवयवौ, तादृशस्य द्वन्द्वसमासस्य सर्वनामसंज्ञा अनेन सूत्रेण निषिध्यते । यथा, 'पूर्वः च परः च' इत्यत्र द्वन्द्वसमासं कृत्वा 'पूर्वपर' इति शब्दः सिद्ध्यति । अत्र समासे विद्यमानौ 'पूर्व' तथा 'पर' एतौ शब्दौ यद्यपि सर्वनामसंज्ञकौ, तथापि अत्र प्रकृतसूत्रेण तदन्तविधिः प्रतिषिध्यते, अतश्च 'पूर्वपर' शब्दस्य सर्वनामसंज्ञा निषिध्यते । एवमेव 'कतरः च कतमः च कतरकतमौ', 'वर्णाश्रमाश्च इतराश्च वर्णाश्रमेतराः' इत्यत्र समस्तपदस्य सर्वनामसंज्ञायाः निषेधः भवति । अतएव एतेषाम् शब्दानाम् षष्ठीबहुवचनस्य रूपम् 'पूर्वपराणाम्', 'वर्णाश्रमेतराम्' एतादृशं भवति ।

'जस्'प्रत्यये परे तु प्रकृतसूत्रेण नित्यं निषेधे प्राप्ते विभाषा जसि 1.1.32 इत्यनेन अग्रिमसूत्रेण द्वन्द्वसमासस्य सर्वनानसंज्ञा विकल्प्यते, अतः 'पूर्वपरे, पूर्वपराः' एतादृशं रूपद्वयम् भवति ।

सर्वनामसंज्ञाविधाने तदन्तविधिः

सर्वादिगणस्य शब्दानां विषये तदन्तविधिः उपयुज्यते । अस्य साक्षात् निर्देशः सूत्रपाठे नास्ति, परन्तु प्रकृतसूत्रमेव अस्य ज्ञापकरूपेण स्वीक्रियते । यदि सर्वनामसंज्ञकशब्दानां विषये तदन्तविधिः नानुमन्यते, तर्हि प्रकृतसूत्रेण द्वन्द्वसमासेन निर्मितानां शब्दानाम् सर्वनामसंज्ञानिषेधस्य किमपि प्रयोजनम् नास्ति । अतः प्रकृतसूत्रमेव सर्वनामशब्दाना तदन्तविधेः ज्ञापकम् ।

समुदायस्यैव सर्वनामसंज्ञानिषेधः

अत्र द्वन्द्वसमासस्य अवयवभूतानां सर्वादिगणस्य शब्दानां सर्वनामसंज्ञा न निषिध्यते, केवलम् तदन्तविधिः एव अत्र प्रतिषिध्यते - येन समस्तपदस्यैव सर्वनामसंज्ञायाः निषेधः जायते । यथा - पूर्वे च परे च पूर्वपराः । अत्र 'पूर्व' तथा 'पर' उभयोः सर्वनामसंज्ञा विद्यते, परन्तु 'पूर्वपर'शब्दस्य सर्वनामसंज्ञा निषिध्यते । एतादृशस्य भेदस्य प्रयोजनम् भाष्यकारेण न बहुव्रीहौ 1.1.29 इत्यत्र उक्तम् अस्ति - अकच्-स्वरौ तु कर्त्तव्यौ प्रत्यङ्गौ मुक्तसंशयम् । अवयवानाम् सर्वनामसंज्ञायां सत्याम् अकच्-प्रत्ययः अवश्यं भवति - इति अत्र आशयः । अतएव पूर्वके च परके च पूर्वपरकाः इति शब्दः साधुत्वं प्राप्नोति ।

अङ्गसंज्ञा

समस्तपदात् विभक्तिप्रत्यये कृते सकलस्य समस्तपदस्य अङ्गसंज्ञा भवति, न हि तदवयवस्य सर्वनामसंज्ञकशब्दस्य । यथा, 'पूर्वपर' शब्दात् षष्ठीबहुवचनस्य आम्-प्रत्यये कृते 'पूर्वपर' इति समस्तः शब्दः अङ्गम् अस्ति, न हि तस्य अंशमात्रः 'पर' इति । अतएव अत्र आमि सर्वनाम्नः सुट् 7.1.52 इत्यनेन सुट्-आगमः न भवति । यदि अत्र केवलम् 'पर'शब्दस्य अङ्गसंज्ञा अभविष्यत्, तर्हि तस्य सर्वनामसंज्ञां सत्याम् सुट्-आगमे कृते 'पूर्वपरेषाम्' इति अनिष्टं रूपं अजनिष्यत ।

Balamanorama

Up

index: 1.1.31 sutra: द्वन्द्वे च


द्वन्द्वे च - तदाह — द्वन्द्वे उक्तेति । सर्वनामसंज्ञा नेत्यर्थः । वर्णाश्रमेतराणामिति ।वर्णाश्रमेतराणां नो ब्राऊहि धर्मानशेषतः॑ इति याज्ञवल्क्यस्मृतिः । वर्णाश्चाअश्रमाश्च इतरे चेति द्वन्द्वः । अत्र सर्वनामत्वाऽभावादामि सर्वनाम्न इति न सुट् । समुदायस्यैवेति । द्वन्द्वे विद्यमानानि यानि सर्वादीनि तानि सर्वनामानि न स्युरिति नाऽर्थः, विद्यतिक्रियाध्याहारे गौरवात् । किन्तु द्वन्द्वे सर्वनामसंज्ञा न भवतीति प्रधानभूतया निषेध्यवनक्रिययैव द्वन्द्वस्याधारतयाऽन्वयः । द्वन्द्वाधारा सर्वनामसंज्ञा न भवतीत्यक्षरार्थः । द्वन्द्वस्य सर्वनामसंज्ञा नेति फलितम् । वर्णाश्रमतरेत्यादिसमुदायस्यैव द्वन्द्वता नतु तदवयवानाम् । एवंच वर्णाश्रमेतरेत्यादिसमुदायस्यैव सर्वनामत्वनिषेधो नतु तदवयवानामिति वस्तुस्तितिकथनम् । ननु द्वन्दावयवानां सर्वनामत्वनिषेधाऽभावे वर्णाश्रमेतरशब्दे इतरशब्दस्य सर्वनामतया ततः परस्यामः सुटि वर्णाश्रमेतरेषामिति स्यात् । नच अवर्णान्तात्सर्वनाम्नोऽह्गात्परस्यामः सुड्विधीयते । ततश्च वर्णाश्रमेतरशब्दस्य समुदायस्य द्वन्द्वतया सर्वनामत्वनिषेधेऽपि तदवयवस्य इतरशब्दस्य सर्वनामतया तदन्ताङ्गात्परत्वादामः स#उट् स्यात् । न चैवं सति द्वन्द्वस्य तन्निषेधात् । इतरशब्दस्तु सर्वनामसंज्ञकः,न ततो विहित आम्, आमः समुदायादेव विधानात् । अतो न सुडिति भावः ।अवर्णान्तादङ्गात्सर्वनाम्नो विहितस्यामः सु॑डिति व्याख्याने तु येषां तेषामित्यत्राऽव्याप्तिः । अतोऽवर्णान्तादङ्गात्परस्य सर्वनाम्नो विहितस्यामः सुडित्येव व्याख्येयम् ।

Padamanjari

Up

index: 1.1.31 sutra: द्वन्द्वे च


अयं समुदायस्यैव निषेधो नावयवानाम्, कुतः ? त्यादादीनां तावत् 'त्यदादीनि सर्वैर्नित्यम्' इति एकशेषेण भाव्यम्, प्राक् च त्यादादिभ्योऽकारान्ताः,तत्र न काकचोर्विशेषः; शर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' त्विष्यत एव-दक्षिणोतरपूर्वाणामिति, सोऽयं प्रतिषेधो ज्ञापयति-'अस्ति सर्वनामसंज्ञायां तदन्तविधिः' इति ॥