वसुस्रंसुध्वंस्वनडुहां दः

8-2-72 वसुस्रंसुध्वंस्वनडुहां दः पदस्य पूर्वत्र असिद्धम्

Sampurna sutra

Up

सः वसुँ-स्रंसु-ध्वंसु-अनडुहाम् पदस्य दः

Neelesh Sanskrit Brief

Up

वसुँ-प्रत्ययान्तस्य सकारान्तशब्दस्य, स्रंसु-शब्दस्य, ध्वंसु-शब्दस्य तथा अनडुह्-शब्दस्य पदान्ते दकारादेशः भवति ।

Neelesh English Brief

Up

The सकारान्त वसुँ-प्रत्ययान्तशब्द, स्रंसु-शब्द, ध्वंसु-शब्द and अनडुह्-शब्द get a दकारादेशः at पदान्त.

Kashika

Up

<<ससजुषोः०>> ८.२.६६ इत्यतः स इति वर्तते। तेन संभवाद् व्यभिचारात् च वसुरेव विशेष्यते, न स्रंसुध्वंसू व्यभिचाराभावाद्, असंभवात् च नानडुह्शब्दः। वस्वन्तस्य पदस्य सकारान्तस्य, स्रंसु, ध्वंसु, अनडुह् इत्येतेषां च दकारादेशो भवति। वसु — विद्वद्भ्याम्, विद्वद्भिः। पपिवद्भ्याम्, पपिवद्भिः। स्रंसु — उखास्रद्भ्याम्, उखास्रद्भिः। ध्वंसु — पर्णध्वद्भ्याम्, पर्णध्वद्भिः। अनडुह् — अनडुद्भ्याम्, अनडुद्भिः। स इत्येव — विद्वान्। पपिवान्। नकारस्य न भवति। रुत्वे नाप्राप्त इदमारभ्यत इति तद् बाध्यते। संयोगान्तलोपस्तु नैवमिति तेनैतदेव दत्वं बाध्यते। अनडुहोऽपि ढत्वमनेन बाध्यते। नुमस्तु विधानसामर्थ्याद् न भवति — अनड्वान्। हे अनड्वन्निति। पदस्येत्येव — विद्वांसौ, विद्वांसः॥

Siddhanta Kaumudi

Up

सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात्पदान्ते । अनडुद्भ्यामित्यादि । सान्तेति किम् । विद्वान् । पदान्ते इति किम् । स्रस्तम् । ध्वस्तम् ॥

Laghu Siddhanta Kaumudi

Up

सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात्पदान्ते। अनडुद्भ्यामित्यादि॥ सान्तेति किम्? विद्वान्। पदान्ते किम्? स्रस्तम् । ध्वस्तम्॥

Neelesh Sanskrit Detailed

Up

अनेन सूत्रेण - 1. वसुँ-प्रत्ययान्ताः शब्दः यथा विद्वस्, 2. स्रंसुँ (अवस्रंसने ) धातुनिर्मितः स्रस् शब्दः। अत्र <<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 इत्यनेन नकारस्य लोपः भवति । 3. ध्वंसुँ (अवस्रंसने गतौ च) धातुनिर्मितः ध्वस् शब्दः । अत्रापि <<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 इत्यनेन नकारस्य लोपः भवति । 4. अनडुह्-शब्दः (= वृषभः ) एतेषां पदान्ते अन्तिमवर्णस्य दकारादेशः भवति । वसुँ-प्रत्ययान्तशब्दस्य विषये अयमादेशः केवलं सकारस्यैव भवति । अन्येषां विषये तु अन्तिमवर्णस्य भवति । यथा - 1. विद्वस् + भ्याम् → विद्वद्भ्याम् । 2. स्रस् + भ्याम् → स्रद्भ्याम् । 3. ध्वस् + भ्याम् → ध्वद्भ्याम् । 4. अनडुह् + भ्याम् → अनडुद्भ्याम् । ज्ञातव्यम् - 1. अस्मिन् सूत्रे <<ससजुषोः रुँः>> 8.2.66 इत्यतः सकारस्य अनुवृत्तिः केवलं वसुँ-प्रत्ययार्थं क्रियते, यतः स्रसुँ/ध्वंसुँ धातुनिर्मितौ शब्दौ नित्यम् सकारान्तौ एव स्तः, तथा अनडुह्-शब्दः कदापि सकारान्तः न भवति । परन्तु वसुँ-प्रत्ययान्तशब्दस्य रूपाणि केषुचन स्थलेषु सकारान्तानि न सन्ति - यथा - विद्वान् , विद्वन् आदयः । अत्र अनेन सूत्रेण नकारस्य दकारादेशः मा भूत् एतत् स्पष्टीकर्तुम् इयमनुवृत्तिः आवश्यकी । 2. एतत् सूत्रम् <<ससजुषोः रुँः>> 8.2.66 इत्यस्य अपवादरूपेण उक्तमस्ति ।

Balamanorama

Up

<<वसुस्रंसुध्वंस्वनडुहां दः>> - भ्यामादौ हलि विशेषमाह — वसुरुआंसु । वसुः प्रत्ययः, तेन तदन्तं गृह्रते ।रुआंसु ध्वंसु अवरुआंसने॑ इति धातू । 'ससजुषो रुः' इत्यतः 'स' इति लुप्तष,ठीकमनुवृत्तम् । तेन च वसुर्विशेष्यते । तदन्तविधिः । सान्तत्वं रुआंसुध्वंस्वोर्न विशेषणम्, अव्यभिचारात् । नाप्यनडुहः, असंभवात् । पदस्येत्यधिकृतं बहुवचनान्तत्वेन विपरिणम्यते ।अलोऽन्त्यस्ये॑ति तदन्तस्य भवति । फलितमाह — सान्तेत्यादिना । यथासंभवं रुत्वढत्वयोरपवादः । अनडुद्भ्यामिति ।स्वादिष्वसर्वनामस्थाने॑ इति पदत्वादिति भावः । इत्यादीति । अनडुद्भिः । अनडुद्भ्यः २ । अनडुहे । अनडुहः । अनडुहः अनडुहोः अनजुहाम् । दत्वेखरि चे॑ति चर्त्वम् । अनडुत्सु । सान्तेति किमिति । वसोरपि सान्तत्त्वाऽव्यभिचारात्प्रश्नः । विद्वानिति । विद्वस् स् इति स्थितेअतवसन्तस्ये॑ति दीर्घेउगिदचा॑रिति नुमि सुलोपे संयोगान्तलोपे च रूपम् । अत्र वसोः सकारान्तत्वाऽभावान्न दत्वमिति भावः । रुआस्तं ध्वस्तमिति । क्तप्रत्ययान्तम् । अत्र पदान्तत्वाऽभावान्न दत्वम् । विद्वांसौ अनड्वाहावित्याद्यप प्रत्युदाहार्यम् ।

Padamanjari

Up

स इति वर्तत इति । अननुवृतौ तु तस्य विद्वानित्यादौ नकारस्य दत्वं प्राप्नोति । न तु स्रंसुध्वंसू इति । विशेष्येते इति विपरिणामेनान्वयः । असम्भवाच्चानडुच्छब्द इति । न विशेष्यत इत्यन्वयः । इहेदं वसोर्दत्वं नाप्राप्ते विध्यन्तरे आरभ्यमाणं यथा विद्वद्भ्यामित्यादौ रुत्वं बाधते, तथा विद्वानित्यादौ संयोगान्तलोपमपि बाधेत ? इत्यत आह - रुत्वे नाप्राप्त इति । अथानड्वानित्यत्र नुमो दकारः कस्मान्न भवति ? अत आह - नुमस्त्विति । दत्वं यदि नकारस्य स्यात् नुमोऽनर्थको विधिः, हकारस्यापि दत्वेन ह्यनड्वादिति सिध्यति । यथैव तर्हि नुमो विधानसामर्थ्याद्दत्वं न भवति, तथानङ्वान् अत्रेत्यादौ'दीर्घादटि समानपादे' इति रुत्वमपि न प्राप्नोति ?'यं विधिं प्रत्युपदेशो' नर्थकः स विधिर्बाध्यते, यस्य तु विधेनिमितमेव नासौ बाध्यतेऽ दत्वं च प्रतिनुमो विधिरनर्थकः, रुविधेः पुनर्निमितमेव ॥