8-2-73 तिपि अनस्तेः पदस्य पूर्वत्र असिद्धम् दः
तिपि परतः सकारान्तस्य पदस्यानस्तेर्दकार आदेशो भवति। अचकाद् भवान्। अन्वशाद् भवान्। तिपीति किम्? चकास्तेः क्विप्, चकाः। अनस्तेरिति किम्? आप एवेदं सलिलं सर्वमाः। आ इत्यस्तेर्लङि तिपि <<बहुलं छन्दसि>> ७.३.९७ इतीड् न कृतः॥
पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः । अचकात्-अचकाद् । अचकासुः ॥
पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः। ससजुषोरुरित्यस्यापवादः। अहिनत्, अहिनद्। अहिंस्ताम्। अहिंसन्॥
<<तिप्यनस्तेः>> - र्वोरुपधायाः । र्च, व् च र्वौ, तयोरिति विग्रहः । 'सिपि धातो रुर्वा' इत्यतो धातोरित्यनुवर्तते । र्वोरिति तद्विशेषणं, ततस्तदन्तविधिः ।पदस्ये॑त्यधिकृतम् । 'स्कोः संयोगाद्योः' इत्यतोऽन्ते इत्यनुवर्तते । तदाह — रेफेत्यादिना । पिपठीरिति । ठकारादिकारस्य दीर्घे रेफस्य विसर्ग इति भावः । पिपठीभ्र्यामिति । 'स्वादिषु' इति पदत्वात् 'र्वोरुपधायाः' इति भ्यामादौ पदान्तत्वलक्षणे दीर्घ इति भावः । सुपि विशेषमाह — वा शरीति । पिपठिष्-सु इति स्थिते षत्वस्याऽसिद्धत्वाद्रुत्वे, दीर्घे, विसर्जनीये, तस्य सत्वं बाधित्वंवा शरी॑ति विकल्पेन विसर्जनीयः । तदभावपक्षे विसर्जनीयस्य सत्वमित्यर्थः । तत्र विसर्जनीयपक्षे पिपठीः-सु इति स्थिते,इण्कवर्गाभ्यां परत्वाऽभावात् 'आदेशप्रत्यययोः' इति षत्वे अप्राप्ते- ।