नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्

7-4-84 नीक् वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् अभ्यासस्य यङ्लुकोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वञ्चु स्रंसु ध्वंसु भ्रंसु कस पत पद स्कन्द इत्येतेषामभ्यासस्य नीगागमो भवति यङि यङ्लुकि च। वञ्चु वनीवच्यते। वनीवञ्चीति। स्रंसु सनीस्रस्यते। सनीस्रंसीति। ध्वंसु दनीध्वस्यते। दनीध्वंसीति। भ्रंसु बनीभ्रस्यते। बनीभ्रंसीति। कस चनीइकस्यते। चनीकसीति। पत पनीपत्यते। पनीपतीति। पद पनीपद्यते। पनीपदीति। स्कन्द चनीस्कद्यते। चनीस्कन्दीति।

Siddhanta Kaumudi

Up

एषामभ्यासस्य नीगागमः स्याद्यङ्यङ्लुकोः । अकित इत्युक्तेर्न दीर्घः । नलोपः । वनीवच्यते । सनीस्रस्यते इत्यादि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

वञ्चुकसिपतिपदयो गत्यर्थाः ।'स्कन्दिः शोषणार्थः' , इतरे अवस्रंसनार्थाः । वनीवच्यते इत्यादौ ठनिदिताम्ऽ इत्युपधालोपः । वनीवञ्चीतीत्यादौ न भवति यङे लुमता लुप्तत्वादीकारोच्चारणसामर्थ्यान्नीकि कृते गुणह्रस्वौ न भवतः ॥