सध मादस्थयोश्छन्दसि

6-3-96 सध मादस्थयोः छन्दसि उत्तरपदे सहस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

छन्दसि विषये माद स्थ इत्येतयोरुत्तरपदयोः सहस्य सध इत्ययमादेशो भवति। स॒ध॒मादो॑ द्यु॒म्निनी॒रापः (मा०सं० १०.७)। स॒ध॒स्थाः॒ (तै०सं०५.७.७.१)॥

Siddhanta Kaumudi

Up

सहस्य सधादेशः स्यात् । इन्द्र चास्मिन्सधमादे (इन्द्र॑ चा॒स्मिन्स॑ध॒मादे॑) । सोमः सधस्थम् (सोमः॑ स॒धस्थ॑म्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सध मादस्थयोश्छन्दसि>> - विष्वग्देवयोश्च । 'अद्रि' इति लुप्तप्रथमाकम् । अनयोरिति । विष्वग्देवशब्दयोरित्यर्थः । सर्वनाम्न इति । चकारेण 'आ सर्वनाम्नः' इत्यतस्तदनुकर्षादिति भावः । अप्रत्ययान्ते इति । सूत्रे अप्रत्यय इत्यत्र नित्यमश्रूयमाणत्वादविद्यमानः प्रत्ययः क्विबादिर्यस्मादिति बहुव्रीह्राश्रयणादिति भावः । प्रकृते अदसष्टेरद्रआदेशमुदाहृत्य दर्शयति — अदद्रि अञ्चिति स्थिते इति । अद्रआदेशोऽयमनिदितामिति नलोपे कृते प्रवर्तते, नलोपस्य परत्वादिति बोध्यम् । यणिति ।रेफादिकारस्ये॑ति शेषः । अदद्रचित्यतः सुबुत्पत्तिः । अदसो । अदसः, असेः, दात्, उ, दः, म इति च्छेदः । 'अदस' इत्यवयवषष्ठन्तम् ।असे॑रिति तद्विशेषणम् । न विद्यते सिर्यस्य स असिः तस्येति विग्रहः । इकार उच्चारणार्थः । दादिति दिग्योगे पञ्चमी । परस्येत्यध्याहार्यम् ।

Padamanjari

Up

सधमादो द्यौम्नि इति केचिदाहुः । अस्मिन्मन्त्रेद्यौम्निरित्यादिकमपां विशेषणम्, सधमाद इत्यपि तत्समानाधिकरणं शसन्तम्, मादयतेः क्विबन्तस्य रुपम्। मादः च्छन्दसि सधादेशो दृश्यते बहुलम् - आ त्वा वृहन्तो हरयो युजानाः, अर्वागिन्द्रसघमादो वहन्तु इत्यादावपीति । अपर आह - मदनं मादः, मदोऽनुपसर्गे इत्यपि प्राप्ते छान्दसो घञ्, तेन सह वर्तत इति सधमाद इति । रेवतीस्थः सधमादः इत्यादौ तु सधमादौ यज्ञः, सह माद्यन्ति देवा अस्मिन्निति कृत्वा ॥