6-1-196 थलि च सेटि इट् अन्तः वा उदात्तः आदिः अन्यतरस्याम्
सेटि थलि इट् वा उदात्तो भवति, अन्तो वा आदिर्वान्यतरस्याम्। लु॒ल॒विथ॑। लु॒ल॒वि॒थ। लुल॑विथ। लु॒लवि॑थ। यदा नैते त्रयः स्वराः, तदा <<लिति>> ६.१.१९३ प्रत्ययात् पूर्वमुदात्तं भवति। तेनैते चत्वारः स्वराः पर्यायेण भवन्ति। सेटीति किम् ? य॒याथ॑। <<लिति>> ६.१.१९३ प्रत्ययात् पूर्वमुदात्तमित्ययमेवात्र स्वरो भवति॥
सेटि थलन्ते पदे इडुदात्तः अन्तो वा आदिर्वा स्यात् । यदा नैते त्रयस्तदा लिति <{SK3676}> इति प्रत्ययात्पूर्वमुदात्तं स्यात् । लुलविथ । अत्र चत्वारोऽपि पर्यायेणोदात्ताः ॥
ठन्यतरस्याम्ऽ इति वर्तमाने वाग्रहणं कार्यिविकल्पार्थम्। अन्यतरस्यांग्रहणेन कार्यं विकल्प्यते, वाग्रहणेन कार्यिणः। तेनेडादयः पर्ययेण कार्यं प्रतिपद्यन्ते। ननु च ठन्तश्च तवै युगपत्ऽ इत्यादौ युगपद्ग्रहणादेवान्यत्र पर्यायः सिद्धः ? सत्यम्; अदेरपि प्राप्ते वाग्रहणम्; अन्यथा श्रुतयोहिडन्तयोरेव कार्यित्वं विकल्पेत्, वाग्रहणे तु सति यद्येवं विकल्पोऽर्थः, अथापि समुच्ययः, सर्वथादेरपि भवति । सेटीति किमिति। इड्ग्रहणादेव थल् सेट् ग्रहीष्यत इति प्रश्नः। ययाथेति। अयमभिप्रायः -इड्ग्रहणं यदेडागमः क्रियते तदा तस्योदातार्थं स्यात्, ततश्च यथा लुलविथेत्यादौ चतुर्णां पर्यायेणोदातवलिधाने ययिथेप्यादौ चतुर्थाभावेऽपि पर्यायेणोदातत्यं भवति, एवमिडभावेऽपि स्यादिति ॥