आमन्त्रितस्य च

6-1-198 आमन्त्रितस्य च उदात्तः आदि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आमन्त्रितस्यादिरुदात्तो भवति। देव॑दत्त, देव॑दत्तौ, देव॑दत्ताः। अत्र <<कारकाद्दत्तश्रुतयोरेवाशिषि>> ६.२.१४८ इति प्राप्तिर्बाध्यते। लुमतापि लुप्ते प्रत्ययलक्षणमत्रेष्यते। सर्पि॑रागच्छ, सप्ता॑गच्छतेति॥

Siddhanta Kaumudi

Up

आमन्त्रित स्यादिरुदात्तः स्यात् । अग्न इन्द्र वरुण मित्र देवाः (अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॑) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अत्र'कारकादतश्रुत्योरेवाशिषि' इति प्राप्तिः प्रतिषिद्ध्यते, शेषनिधातेन बाध्य त्यिर्थः। प्रत्ययलक्षणमत्रेष्यत इति। षष्ठीनिर्देशेन तत्कार्यस्य स्पष्टत्वात्। सर्पिरिति। सृपेरिसि सर्पिः सब्दोऽन्त्योदातः,'स्वमोर्नपुंसकात्' इति सोर्लुक्। सप्तशब्दौ घृतादित्वादन्तोदातः,'षङ्भ्यो लुक्' इति जसो लुक् ॥