5-4-83 अनुगवम् आयामे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः अच्
index: 5.4.83 sutra: अनुगवमायामे
अनुगवमायामे (निपात्यते)
index: 5.4.83 sutra: अनुगवमायामे
'अनुगवम्' इति अच्-प्रत्ययान्तशब्दः 'आयामः' अस्मिन् अर्थे निपात्यते ।
index: 5.4.83 sutra: अनुगवमायामे
अनुगवम् इत्यच्प्रत्ययान्तं निपात्यते आयमेऽभिधेये। अनुगवम् यानम्। यस्य चायामः 2.1.16 इति समासः। आयमे इति किम्? गवां पश्चदनुगु।
index: 5.4.83 sutra: अनुगवमायामे
एतन्निपात्यते दीर्घत्वे । अनुगवं यानम् । यस्य चायामः <{SK670}> इति समासः ॥
index: 5.4.83 sutra: अनुगवमायामे
'आयामः' (length, distance) अस्मिन् अर्थे 'अनुगवम्' इति अच्-प्रत्ययान्तशब्दः अनेन सूत्रेण निपात्यते । एकस्याः गोः या व्याप्तिः (length of one cow) तादृशः आयामः 'एकमनुगवम्' इति उच्यते।
अत्र 'अनु' इति पूर्वपदम्, 'गो' इति उत्तरपदम् तथा 'अच्' इति समासान्तप्रत्ययः भवति । यथा -
अनु + गो + अच् [यस्य चायामः 2.1.16 इति अव्ययीभावसमासः]
→ अनु + ग् + अव् + अच् [एचोऽयवायावः 6.1.78 इति अवादेशः । अत्र गो-शब्दः पदसंज्ञकः नास्ति अतः अवङ् स्फोटायनस्य 6.1.123 इत्यस्य प्रसक्तिः न विद्यते इति स्मर्तव्यम् ।]
→ अनुगव
यथा - अनुगवम् यानम् । A vehicle whose length is same as length of a cow.
'आयाम' इत्येतमर्थं विहाय अन्येषु अर्थेषु अस्य शब्दस्य प्रयोगः भवति । यथा - 'गवां पश्चात् अनुगु' । अत्र अच्-प्रत्ययः न भवति ।
index: 5.4.83 sutra: अनुगवमायामे
अनुगवमायामे - अनुगवमायामे । एतदिति । अनुगवमित्येतदित्यर्थः । अनुना दीर्घत्वे द्योत्येऽच्प्रत्ययान्तो निपात्यत इत्यर्थः । आयामशब्दो दीर्घपर इति भावः । अनुगवंयानामिति । अनुगोशब्दादचि अवादेश इति भावः । यस्य चेति । 'यस्य चायामः' इत्यव्ययीभावसमासः । तथा च गोदैध्र्यकं यानमित्यर्थः फलतीति भावः ।
index: 5.4.83 sutra: अनुगवमायामे
आयामेऽभिधेय इति। प्रवृत्तिनमितमायामः, तद्वति तु पर्यवसानम्। मत्वर्थीयाकारान्तो वा आयामशब्दः, आयामवत्यभिधेय इत्यर्थः; अन्यथाऽनुगवं यानमिति सामानाधिकरण्यं न स्यात्। यस्य चायाम इति समास इति। ननु तत्र लक्षणेनेति वर्तते ? सत्यम्; इहापि बाह्यं यानं प्रति गवामस्त्येव लक्षणभावः। अनुगुशब्दात्प्रत्ययेऽभिधातव्ये निपातनाश्रयणं प्रसिद्ध्युपसंग्रहार्थम्, तेन यद्गवां बाह्यं तत्रैव भवति ॥