5-4-82 प्रतेः उरसः सप्तमीस्थात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः अच्
प्रतेः सप्तमीस्थात् उरसः अच्
'प्रति' इत्यनेन सह 'उरसि' इति सप्तम्यन्तस्य पदस्य समासे जाते तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति ।
प्रतेः परो य उरःशब्दस्तदन्तात् समासादच् प्रत्ययो भवति, स चेदुरःशब्दः सप्तमीस्थो भवति। सप्तम्यर्थे वर्तत इत्यर्थः। उरसि वर्तते। विभक्त्यर्थे <<अव्ययम्०>> २.१.६ इति समासः। प्रत्युरसम्। सप्तमीस्थादिति किम् ? प्रतिगतमुरः प्रत्युरः॥
उरसि इति प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः ॥
यस्मिन् समासे 'प्रति' इति शब्दः पूर्वपदरूपेण, तथा च सप्तम्यर्थे प्रयुक्तः 'उरस्' इति शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासात् 'अच्' इति समासान्तप्रत्ययः भवति । यथा - उरसि वर्तते इति [<<अव्ययं विभक्तिसमीप...>> 2.1.6 इति अव्ययीभावसमासः] → प्रति + उरस् + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → प्रत्युरस [<<इको यणचि>> 6.1.77 इति यणादेशः] उरसि वर्तते तत् प्रत्युरसम् । यत्र 'उरस्' शब्दः सप्तम्यर्थे न प्रयुज्यते, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - प्रतिगतमुरः प्रत्युरः ।
सप्तम्यर्थे वर्तत इति। न ह्यन्यदुरःशब्दस्य सप्तमीस्थत्वं नामेति भावः ॥