यस्य चायामः

2-1-16 यस्य च आयामः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा अव्ययीभावः विभाषा लक्षणेन अनुः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

लक्षेणेनेति वर्तते। आयामो दैर्घ्यम्। अनुर्यस्यायामवाची तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति। अनुगङ्गं वाराणसी। अनुयमुनं मथुरा। यमुनायामेन मथुरायामो लक्ष्यते। आयाम इति किम्? वृक्षमनु विद्योतते विद्युत्॥

Siddhanta Kaumudi

Up

यस्य दैर्घ्यमनुना द्योत्यते तेन लक्षणभूतेनानुः समस्यते । अनुगङ्गं वाराणसी गङ्गाया अनु । गङ्गादैर्घ्यसदृशदैर्घ्योपलक्षितेत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<यस्य चायामः>> - यस्य चायामः । लक्षणेनेत्यनुवर्तते । अनुरित्यनुवर्त्त्य आवर्त्त्य तृतीयया विपरिणम्यते । तत्र एकं लक्षणेनेत्यत्र संबध्यते । द्वितीयं तु अनुनेत्येतत् — ॒यस्य चायामः॑ इत्यनन्तरं संबध्यते । द्योत्यत इति शेषः । आयामो दैघ्र्यम् । तदाह-यस्य दैघ्र्यमिति । यद्दैघ्र्यसदृशं दैघ्र्यमित्यर्थः । समस्यते इति ।सोऽव्ययीभाव॑ इत्यपि बोध्यम् । अनुगङ्गमिति-समासः । लौकिकविग्रहं दर्शयति-गङ्गाया अन्विति । इहापि लक्षणत्वं वस्तुसदेव निमित्तं न त्वनुद्योत्यम् । अतो न कर्मप्रवचनीयत्वम् । द्योत्यत्वेनान्वये तु गङ्गामन्विति युक्तम् । अनुगङ्गमित्यत्र गङ्गाशब्देन गङ्गादैघ्र्यसदृशं दैघ्र्यं लक्ष्यते । तदेवानुद्योत्यम् । तदाह — गङ्गा-दैघ्र्येति ।

Padamanjari

Up

लक्षणेनेति वर्तत इति। अन्यथा आयामो गङ्गाया इत्यस्यार्थेऽनुगङ्गमिति स्यात्। अत्राप्यायामवाचित्वादनुरेवायामशब्देनोच्यते, इत्याह अनुर्यस्यायामवाचीति। अनुगङ्ग वाराणसीति। षष्ठ।ल्न्तेन गङ्गाशब्देन समासः। गङ्गाया अन्विति। आयामो लक्षमत्वं चानुना द्योत्यते, लक्षणस्य लक्ष्यापेक्षत्वाल्लक्ष्यं समासार्थ इत्यर्थादुपमानोपमेयभावे समास इति वाराणस्या सामानाधिकरण्यम्-गङ्गाया इवायामो यस्याः, गङ्गेवायता वाराणसीत्यर्थः। तद्वदत्यन्तायतेत्यर्थ इति केचित्। तथा च ठनुगङ्गमेतत्सुत्रम्ऽ इत्येकशेषसूत्रे भागवृत्तिकारः प्रयुङ्क्ते। नेति वयम्। किं प्रागायता वाराणसी? उतोदगायता? इति संदेहे इदमुच्यते-अनुगङ्गं वाराणासीति, यथोदगायता गङ्गा तथोदगायता वारामसीत्यर्थः। गङ्गायामानुसारेण वाराणस्यायाम इत्यर्थः। यमुनायामेन मथुरायामो लक्ष्यत इति। न यमुना स्वरूपेण लक्षणम्, किं तर्हि? आयामेन, मथुरापि न स्वरूपेण लक्ष्यम्, किं तर्हि? आयामेन। तत्र प्राप्ताप्तविवेकेनेदमुच्यते-यमुनायामेन मथुरायामो लक्ष्यत इति॥