अन्ववतप्ताद्रहसः

5-4-81 अन्ववतप्तात् रहसः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः अच्

Sampurna sutra

Up

index: 5.4.81 sutra: अन्ववतप्ताद्रहसः


अनु-अव-तप्तात् रहसः अच्

Neelesh Sanskrit Brief

Up

index: 5.4.81 sutra: अन्ववतप्ताद्रहसः


यस्मिन् समासे पूर्वपदम् 'अनु', 'अव' उत 'तप्त' एतेषु किञ्चन अस्ति, उत्तरपदम् च 'रहस्' इति शब्दः वर्तते, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति ।

Kashika

Up

index: 5.4.81 sutra: अन्ववतप्ताद्रहसः


अनु अव तप्त इत्येतेभ्यः परो यो रहस्शब्दः तदन्तात् समासादच् प्रत्ययः भवति। अनुरहसम्। अवरहसम्। तप्तरहसम्।

Siddhanta Kaumudi

Up

index: 5.4.81 sutra: अन्ववतप्ताद्रहसः


अनुरहसम् । अवरहसम् । तप्तरहसम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.81 sutra: अन्ववतप्ताद्रहसः


'अनु', 'अव' तथा 'तप्त' एते शब्दाः यस्मिन् समासे पूर्वपदरूपेण विद्यन्ते, तथा च 'रहस्' (= अप्रकाश / secrecy / mystery) इति शब्दः उत्तरपदरूपेण विधीयते, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति । यथा -

  1. अनुगतं रहः [कुगतिप्रादयः 2.2.18 इति तत्पुरुषसमासः]

→ अनु + रहस् + अच् [वर्तमानसूत्रेण अच्-प्रत्ययः]

→ अनुरहस

अत्र 'अनुगतम् रहसा' / 'अनुगतं रहः यस्मिन् सः' एतादृशानि भिन्नानि विग्रहवाक्यानि अपि भवितुमर्हन्ति ।

  1. अवहीनम् रहः [ कुगतिप्रादयः 2.2.18 इति तत्पुरुषसमासः]

→ अव+ रहस् + अच् [वर्तमानसूत्रेण अच्-प्रत्ययः]

→ अवरहस

अत्र 'अवहीनम् रहसा' / 'अवहीनं रहः यस्मिन् सः' एतादृशानि भिन्नानि विग्रहवाक्यानि अपि भवितुमर्हन्ति ।

  1. तप्तं च तद् रहः च् [विशेषणम् विशेष्येण बहुलम् 2.1.57 इति कर्मधारयसमासः]

→ तप्त + रहस् + अच् [वर्तमानसूत्रेण अच्-प्रत्ययः]

→ तप्तरहस

Balamanorama

Up

index: 5.4.81 sutra: अन्ववतप्ताद्रहसः


अन्ववतप्ताद्रहसः - अन्ववतप्ताद्रहसः । अनु अव तप्त एतेषां समाहारद्वन्द्वः । एभ्यः परो यो रहश्शब्दस्तस्मादच्स्यादित्यर्थः । रहः-अप्रकाशप्रदेशः । अनुरहसमिति । अनुगतं रह इति विग्रहः । अवरहसमिति । अवहीनं रह इति । विग्रहः । उभयत्र प्रादिसमासः । तप्तरहसमिति । तप्तं रह इति विग्रहः । प्रतेरुरसः । सप्तम्यर्थे द्योतकतया वर्तत इति सप्तमीस्थम् । सप्तम्यर्थद्योतकात् प्रतेः परो य उरश्शब्दस्तस्मादच् स्यादित्यर्थः । उरसीति । अनेन यदुच्यते तदेव प्रत्युरसमित्यनेनोच्यत इत्यर्थः । सप्तम्यर्थद्योतकः प्रतिः । तस्य विभक्त्यर्थे विद्यमानस्यअव्ययं विभक्ती॑त्यादिनाऽव्ययीभाव इति भावः ।

Padamanjari

Up

index: 5.4.81 sutra: अन्ववतप्ताद्रहसः


रहःशब्दोऽयमप्रकाशे वर्तते। अनुगतं रह इति। प्रादिसमासः, अनुगतं रहोऽस्मिन्निति बहुव्रीहिर्वा। एवमवहीनं रहः, अवहीनं रहोऽस्मिन्नति अवरहसम्। तप्तं च तद्रहश्च तप्तरहस॥। अत्यन्तं रह इत्यर्थः ॥