2-1-64 किं क्षेपे आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन
index: 2.1.64 sutra: किं क्षेपे
किम् इत्येतत् क्षेपे गम्यमाने सुपा सह समस्यते ततुरुषश्च समासो भवति। किंराजा, यो न रक्षति। किंसखा, योऽभिद्रुह्यति। किंगौः, यो न वहति। किमः क्षेपे 5.4.70 इति समासान्तो न भवति। क्षेपे इति किम्? को राजा पाटलिपुत्रे।
index: 2.1.64 sutra: किं क्षेपे
कुत्सितो राजा किंराजा । यो न रक्षति ॥
index: 2.1.64 sutra: किं क्षेपे
किं क्षेपे - किं क्षेपे । क्षेपो निन्दा । तत्रगम्ये किमित्यव्ययं समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः । कुत्सितो राजेति । अस्वपदविग्रहोऽयम् । किम्पदस्थाने कुत्सिदपदमिति ज्ञेयम्, वाक्येन निन्दानवगमेन स्वपदलौकिकविग्रहाऽसम्भवात् । किंराजेति । 'राजाहःसखिभ्यः' इति टच् तु न, 'किमः क्षेपे' इति निषेधात् । ननु राज्ञो बहुसम्पत्तिशालिनः कथं कुत्सितत्वमित्यत आह — यो न रक्षतीति । स किराजेत्यन्वयः ।