वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि

5-4-41 वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्रशंसायाम्

Sampurna sutra

Up

प्रशंसायाम् वृक-ज्येष्ठाभ्याम् तिल्-तातिलौ छन्दसि

Neelesh Sanskrit Brief

Up

प्रशंसायाम् गम्यमानायाम् वेदेषु 'वृक' तथा 'ज्येष्ठ' शब्दाभ्याम् यथासङ्ख्यम् 'तिल्' तथा 'तातिल्' प्रत्ययः कृतः दृश्यते ।

Kashika

Up

प्रशंसायामित्येव। वृकज्येष्ठाभ्यां प्रशंसोपाधिकेऽर्थे वर्तमानाभ्यां यथासंख्यं तिल्तातिलौ प्रत्ययौ भवतश्छन्दसि विषये। रूपपोऽपवादौ। वृ॒कतिः॑ (ऋ० ४.४१.४)। ज्ये॒ष्ठता॑तिः (ऋ० ५.४४.१)॥

Siddhanta Kaumudi

Up

स्वार्थे । यो नों दुरेवो वृकतिः (यो नों॑ दु॒रेवो॑ वृ॒कतिः) । ज्येष्ठतातिं बहिर्षदम् (ज्ये॒ष्ठता॑तिं बर्हि॒षद॑म्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

प्रशंसायाम् गम्यमानायाम् वेदेषु 'वृक' (wolf) शब्दात् 'तिल्' प्रत्ययः तथा च 'ज्येष्ठ'शब्दात् 'तातिल्' प्रत्ययः प्रयुक्तः दृश्यते । यथा - 1. प्रशस्तः वृकः = वृकतिः । यथा - ऋग्वेदे 4.41.4 - यो नो॑ दु॒रेवो॑ वृ॒कति॑र्द॒भीति॒स्तस्मि॑न्मिमाथाम॒भिभू॒त्योज॑: । 2. प्रशस्तः ज्येष्ठः = ज्येष्ठतातिः । यथा - ऋग्वेदे 5.41.1 - तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विद॑म् ।

Balamanorama

Up

Padamanjari

Up