ओषधेरजातौ

5-4-37 ओषधेः अजातौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः अण्

Sampurna sutra

Up

index: 5.4.37 sutra: ओषधेरजातौ


ओषधेः अजातौ अण्

Neelesh Sanskrit Brief

Up

index: 5.4.37 sutra: ओषधेरजातौ


जातिभिन्ने अर्थे प्रयुक्तात् 'ओषधि' शब्दात् स्वार्थे अण् प्रत्ययः भवति ।

Kashika

Up

index: 5.4.37 sutra: ओषधेरजातौ


ओषधिशब्दादजातौ वर्तमानात् स्वार्थेऽण्प्रत्ययो भवति। औषधं पिबति। औषधं ददाति। अजातौ इति किम्? ओषधयः क्षेत्रे रूढा भवन्ति।

Siddhanta Kaumudi

Up

index: 5.4.37 sutra: ओषधेरजातौ


स्वार्थेऽण् । औषधं पिबति । अजातौ किम् । ओषधयः क्षेत्रे रूढाः ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.37 sutra: ओषधेरजातौ


'ओषधि' इत्यस्य शब्दस्य प्रामुख्येन द्वौ अर्थौ स्तः - भिषग् (medicine, usually created by processing a mixture of various substances), तथा च भिषग्वनस्पतिः (medicinal plant) । एतेषु 'भिषग्' इत्यस्मिन् अर्थे प्रयुक्तः यः 'ओषधि' शब्दः, तस्मात् स्वार्थे 'अण्' प्रत्ययः भवति । ओषधिः इत्येव औषधम् । प्रक्रिया इयम् -

ओषधि + अण्

→ औषधि + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ औषध् + अ [यस्येति च 6.4.148 इति इकारलोपः]

→ औषध

स्मर्तव्यम् - समर्थानां प्रथमाद्वा 4.1.82 इत्यनेन अत्र प्रत्ययविधानम् विकल्प्यते, अतः 'ओषधिः' इत्यस्य शब्दस्य प्रयोगः अपि अस्मिन् विषये भवितुमर्हति ।

'ओषधि' शब्दस्य अर्थः यत्र भिषग्वनस्पतिः (medicinal plant) इति क्रियते, तत्र तु वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - 'क्षेत्रे ओषधयः सन्ति' (The farm contains medicinal plants) ।

Balamanorama

Up

index: 5.4.37 sutra: ओषधेरजातौ


ओषधेरजातौ - ओषधेरजातौ । औषधं पिबतीति । शुण्ठीमरीचादिचूर्णमबादिद्रव्यसंसृष्ठं विवक्षितम् । तस्य न जातिवचनत्वमिति भावः । क्षेत्रे रूढा इति । उत्पन्ना इत्यर्थः । शाल्यादिसस्यात्मका इति फलितम् ।

Padamanjari

Up

index: 5.4.37 sutra: ओषधेरजातौ


औषधं पिबतीति। पथ्या-शुण्ठी-सैन्धवादीनां कल्के औषधशब्दो वर्तते, औषधयः क्षेत्ररूढा इति। फलपाकावसानेषु जातिविशेषेप्वत्रौषधिशब्दः ॥