5-4-23 अनन्तावसथेतिहभेषजात् ञ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः तत् प्रकृतवचने मयट्
index: 5.4.23 sutra: अनन्तावसथेतिहभेषजाञ्ञ्यः
अनन्त-आवसथ-इतिह-भेषजात् ञ्यः
index: 5.4.23 sutra: अनन्तावसथेतिहभेषजाञ्ञ्यः
अनन्त, आवसथ, इतिह, भेषज - एतेभ्यः शब्देभ्यः स्वार्थे ञ्य-प्रत्ययः भवति ।
index: 5.4.23 sutra: अनन्तावसथेतिहभेषजाञ्ञ्यः
अनन्तादिभ्यः स्वार्थे ञ्यः प्रत्ययो भवति। अनन्त एव आनन्त्यम्। आवसथ एव आवसथ्यम्। इति ह ऐतिह्यम्। निपातसमुदायोऽयमुपदेशपारम्पर्ये वर्तते। भेषजम् एव भैषज्यम्। महाविभाषया विकल्पते प्रत्ययः।
index: 5.4.23 sutra: अनन्तावसथेतिहभेषजाञ्ञ्यः
अनन्त एवानन्त्यम् । आवसथ एवावसथ्यम् । इतिहेति निपातसमुदायः । ऐतिह्यम् । भेषजमेव भैषज्यम् ॥
index: 5.4.23 sutra: अनन्तावसथेतिहभेषजाञ्ञ्यः
अनेन सूत्रेण चतुर्भ्यः शब्देभ्यः स्वार्थे ञ्य-प्रत्ययविधानम् क्रियते । समर्थानां प्रथमात् वा 4.1.82 इत्यत्र निर्दिष्टायां महाविभाषायामयम् प्रत्ययः पाठितः अस्ति, अतः अयम् विकल्पेनैव भवति । इत्युक्ते, प्रत्ययं विना अपि शब्दप्रयोगः साधु एव ।
उदाहरणानि एतानि -
= अनन्त + ञ्य
→ आनन्त + य [तद्धितेष्वचामादेः7.2.117 इति आदिवृद्धिः]
→ आनन्त् + य [यस्येति च 6.4.148 इति अकारलोपः]
→ आनन्त्य
अनन्तः इत्येव आनन्त्यः
एवमेव -
आवसथः (निवासस्य स्थानम्, यथा गृहम्, आश्रमः, विश्रामगृहम्, hotel etc) इत्येव आवसथ्यः ।
इतिह (= इति इत्येव) इत्येव = एतिह्य ।
ज्ञातव्यम् - 'इति' तथा 'ह' एतयोः अव्यययोः एकत्ररूपेण उच्चारणं कृत्वा 'इतिह' अयं शब्दः जायते । 'ह' इत्यस्य अत्र कोऽपि विशिष्टः अर्थः नास्ति । यथा 'ननु', 'किल', 'अपिच' , 'स्म' एतादृशाः शब्दाः अर्थम् विना अपि वाक्यनिर्माणे प्रयुज्यन्ते, तथैव 'ह' अयम् शब्दः अपि प्रयुक्तः दृश्यते ।
अत्र महाविभाषया प्रत्ययः विकल्पेन विधीयते इति स्मर्तव्यम् ।
index: 5.4.23 sutra: अनन्तावसथेतिहभेषजाञ्ञ्यः
अनन्तावसथेतिहभेषजाञ्ञ्यः - अनन्तावथेतिह । अनन्त, आवसथ, इतिह, भेषज एभ्यः स्वार्थे ञ्यप्रत्ययः स्यादित्यर्थः । अनन्त एवेति । अन्तोनाशः । तस्याऽभावः अनन्तः । अर्थाऽभावे अव्ययीभावेन तद्विकल्पस्योक्तत्वात् । आनन्त्यमिति । स्वार्थिकत्वेऽपि प्रकृतिलिङ्गव्यतिक्रम । आवसथो-गृहम् । निपातसमुदाय इति । स च उपदेश परम्पर्ये वर्तते । तस्मात्स्वार्थे ञ्यः ।पारम्पर्योपदेशे स्यादैतिह्रमितिहाव्यय॑मित्यमरः । भैषज्यमिति । भैषजम्ौषधम्, तदेव भैषज्यम् ।भेषजौषधभैषज्यानी॑त्यमरः ।
index: 5.4.23 sutra: अनन्तावसथेतिहभेषजाञ्ञ्यः
आवसन्त्येतमित्यावसथः, ठुपसर्गे वसेःऽ इत्यथप्रत्ययः। निपातसमुदायोऽयमिति। वचनाच्चाप्रातिपदिकादपि प्रत्ययः। उपदेशपारम्पर्ये वर्तते इति। तद्यथा - इति ह स्मोपाध्याः कथयन्तीति। भिषज्यतेः कण्ड्वादियगन्तात्किवपि भिषक, भिषज इदमित्यण् - भेषजम्, अस्मादेव निपातनादेकारः ॥