5-4-22 समूहवत् च बहुषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः तत् प्रकृतवचने मयट्
'तत् बहुषु प्रकृतवचने' समूहवत् मयट् च
'बहवः प्राचुर्येण उपस्थिताः' इति सन्दर्भे प्रातिपदिकात् स्वार्थे समूहवाचकप्रत्ययाः भवन्ति । पक्षे मयट्-प्रत्ययः अपि विधीयते ।
तत् प्रकृतवचन इत्येव। बहुषु प्रकृतेषूच्यमानेषु समूहवत् प्रत्यया भवन्ति। चकाराद् मयट् च। मोदकाः प्रकृताः प्राचुर्येण प्रस्तुता मौदकिकम्, मोदकमयम्। शाष्कुलिकम्, शष्कुलीमयम्। <<अतिवर्तन्तेऽपि स्वार्थिकाः प्रकृतितो लिङ्गवचनानि>>। द्वितीये सूत्रार्थे — मोदकाः प्रकृता अस्मिन् यज्ञे मौदकिको यज्ञः, मोदकमयः। शाष्कुलिकः, शष्कुलीमयः॥
सामूहिकाः प्रत्यया अतिदिश्यन्ते चान्मयट् । मोदकाः प्रकृताः मौदकिकम् । मोदकमयम् । शाष्कुलिकम् । शष्कुलीमयम् । द्वितीयेऽर्थे । मौदकिको यज्ञः । मोदकमयः ॥
<<तस्य समूहः>> 4.2.37 इति किञ्चन सूत्रं तद्धिताधिकारे प्राग्दीव्यतीयेषु अर्थेषु पाठ्यते । अस्मिन् विषये भिन्नेभ्यः प्रातिपदिकेभ्यः ये प्रत्ययाः उक्ताः सन्ति, ते सर्वे प्रत्ययाः 'बहवः प्राचुर्येण (abundant, many in number) ' अस्मिन् सन्दर्भे प्रातिपदिकेभ्यः स्वार्थे भवितुमर्हति । पक्षे मयट्-प्रत्ययः अपि भवति । यथा - 'मोदकानां समूहः' अस्मिन् अर्थे 'मोदक' शब्दात् <<अचित्तहस्तिधेनोः ठक्>> इत्यनेन ठक्-प्रत्ययः भवति । यथा - मोदकानां समूहः मौदकिकम् । अतः 'बहवः मोदकाः प्राचुर्येण उपस्थिताः ' अस्मिन् सन्दर्भे अपि 'मोदक' शब्दात् 'ठक्' प्रत्ययं कृत्वा 'मौदकिकम्' इति रूपम् जायते । बहवः मोदकाः प्राचुर्येण उपस्थिताः तत् मौदकिकम् । Many मोदक, when available in abundance are collectively referred as मौदकिकम् । पक्षे मयट्-प्रत्ययः अपि भवति । यथा - बहवः मोदकाः प्राचुर्येण उपस्थिताः तत् मोदकमयम् । एवमेव - बह्व्यः शष्कुलयः (rice cake / Idli) प्राचुर्येण प्रस्तुताः, तदेव 'शाष्कुलिकम्' । अत्रापि <<अचित्तहस्तिधेनोः ठक्>> 4.2.47 इति ठक्-प्रत्ययः भवति । पक्षे मयट्-प्रत्ययः अपि विधीयते । बह्व्यः शष्कुलयः तदेव शष्कुलीमयम् । अत्र केचन विषयाः ज्ञेयाः - 1. अस्मिन् सूत्रे 'बहुषु' इति उच्यते । 'बहु' इति शब्दः अत्र सङ्ख्यारूपेण प्रयुक्तः अस्ति । इत्युक्ते, येषाम् गणना 'त्रयः अथवा अधिकाः' इति विद्यते, ते शब्दाः 'बहवः' इत्यनेन निर्दिश्यते । The word बहवः is used to indicate a count of three or more. । अतः, यत्र 'विपुलम्' (a large amount, too much) इति अर्थः विद्यते परन्तु गणना भवितुम् न अर्हति, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - 'विपुलं व्रीहिः (A lot of rice), विपुलं जलम् (A lot of water) एतेषु सन्दर्भेषु वर्तमानसूत्रस्य प्रसक्तिः नास्ति । 2. यदि केवलम् 'बहवः' इति अर्थः अस्ति परन्तु 'प्रकृतवचने' (= abundant) इति अर्थः नास्ति तत्रापि वर्तमानसूत्रस्य प्रयोगः न भवति । यथा, कस्यांश्चित् पूजायाम् बहवः (= दश) मोदकाः सन्ति, परन्तु तानि पर्याप्तानि न, तत्र वर्तमानसूत्रस्य प्रयोगः न क्रियते । 3. <<तत्प्रकृतवचने मयट्>> 5.4.21 इति सूत्रवत् अत्रापि 'वचने' इत्यस्य 'अधिकरणे ल्युट्' इति अर्थम् स्वीकृत्य प्रथमासमर्थात् सप्तम्यर्थे प्रत्ययविधानम् भवति । यथा - बहवः मोदकाःप्राचुर्येण प्रस्तुताः यस्याम् पूजायाम् सा मौदकिकी मोदकमयी वा पूजा । बह्व्यः शष्कुलयः यस्मिन् यज्ञे सः शाष्कुलिकः शष्कुलीमयः वा यज्ञः । 4. इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> 4.1.82 इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति । अतः अत्र प्रत्ययस्य विकल्पः विधीयते । इत्युक्ते, 'बहवः मोदकाः प्राचुर्येण प्रस्तुताः' अस्मिन् अर्थे 'मोदक' शब्दस्य प्रयोगः अपि भवितुमर्हन्ति, 'मोदकमय / मौदकिक' शब्दस्य प्रयोगः अपि भवितुमर्हति । 5. अनेन सूत्रेण निर्मिताः शब्दाः नपुंसकलिङ्गे एकवचने एव प्रयुज्यन्ते । यथा - बहवाः मोदकाः प्राचुर्येण प्रस्तुताः ते एव मौदकिकम् मोदकमयम् वा - आदयः । (यत्र प्रथमासमर्थात् सप्तम्यर्थे प्रत्ययविधानम् भवति तत्र तु पुंलिङ्गे प्रयोगः साध्वेव) ।
<<समूहवच्च बहुषु>> - समूहवच्च । बहुषु । तत्प्रकृतवचने इत्येव । सामूहिका इति । 'तस्य समूहः' इत्यधिकारविहिताः प्रत्यया इत्यर्थः । बहुषु प्राचुर्यविशिष्टेषु वर्तमानाच्छब्दात्स्वार्थे समूहवत्प्रत्ययाः स्युरित्यर्थः । यद्वा बहुत्वविशिष्टानि प्राचुर्यविशिष्टानि वस्तूनि यस्मिन्नधिकरणे उच्यन्ते, तदधिकरणे वाच्ये तद्वस्तुवृत्तेः शब्दात्समूहवत्प्रत्ययाः स्युरित्यर्थः । आद्ये उदाहरति — मोदकाः प्रकृता मौदकिकमिति ।अचित्तहस्तिधेनो॑रिति सामूहिकष्ठक् । स्वार्थिकत्वेऽपि प्रकृतिलिङ्गातिक्रमः कुटीरवत् । शाष्कुलिकमिति । शष्कुलयः प्रचुरा इत्यर्थः । पूर्ववट्ठक्, प्रकृतिलिङ्गातिकमश्च । द्वितीयेऽर्ते मौदिकको यज्ञ इति । मोदका अस्मिन्यज्ञे उच्यन्त इति विग्रहः ।
आपूपिकम्, मौदकिकमिति। ठचितहस्तिधेनोष्ठक्ऽ ॥