5-4-24 देवतान्तात् तादर्थ्ये यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः तत् प्रकृतवचने मयट्
index: 5.4.24 sutra: देवतान्तात्तादर्थ्ये यत्
देवतान्तात् तादर्थ्ये यत्
index: 5.4.24 sutra: देवतान्तात्तादर्थ्ये यत्
यस्य शब्दस्य अन्ते 'देवता' इति विद्यते, तस्मात् 'तदर्थम्' इत्यर्थे यत्-प्रत्ययः भवति ।
index: 5.4.24 sutra: देवतान्तात्तादर्थ्ये यत्
देवताशब्दान्तात् प्रातिपदिकात् चतुर्थीसमर्थात् तादर्थे यत्प्रत्ययो भवति। तदर्थ एव तादर्थ्यम्। चातुवर्ण्यादित्वात् ष्यञ्। तदिति प्रकृत्यर्थे निर्दिश्यते। आग्निदेवतायै इदमग्निदेवत्यम्। पितृदेवत्यम्। वायुदेवत्यम्।
index: 5.4.24 sutra: देवतान्तात्तादर्थ्ये यत्
तदर्थ एव तादर्थ्यम् । स्वार्थे ष्यञ् । अग्निदेवतायै इदमग्निदेवत्यम् । पितृदेवत्यम् ॥
index: 5.4.24 sutra: देवतान्तात्तादर्थ्ये यत्
यस्य अन्ते 'देवता' इति शब्दः विद्यते (यथा - अग्निदेवता, वायुदेवता, सूर्यदेवता - आदयः) तस्मात् शब्दात् चतुर्थीसमर्थात् प्रथमार्थे 'यत्' इति प्रत्ययः विधीयते ।
यथा -
= अग्निदेवता + यत्
→ अग्निदेवत् + य [यस्येति च 6.4.148 इति अकारलोपः]
→ अग्निदेवत्यम् ।
वायुदेवतायै इदम् = वायुदेवत्यम् ।
पितृदेवतायै इदम् = पितृदेवत्यम् ।
'यत्' प्रत्यये यकारः तित्स्वरितम् 6.1.185 इत्यनेन स्वरविधानम् कारयितुम् स्थापितः अस्ति ।
विशेषः -
यद्यपि इदम् सूत्रम् स्वार्थिकप्रकरणे विद्यते, तथाप्यत्र प्रत्ययः स्वार्थे न विधीयते, अपितु चतुर्थीसमर्थात् 'इदम्' अस्मिन् अर्थे विधीयते इति ज्ञातव्यम् ।
अस्मिन् सूत्रे प्रयुक्तः 'तादर्थ्य' इति शब्दः स्वयम् तद्धितान्तः अस्ति । 'तदर्थम् इत्येव' इति विग्रहे गुणवचनब्राह्मणादिभ्यः कर्मणि च 5.1.124 इत्यत्र पाठिते <!चातुर्वर्ण्यादिभ्यः स्वार्थे उपसङ्ख्यानम्!> इत्यस्मिन् वार्त्तिके निर्दिष्टे 'चातुर्वर्ण्यादि' गणे अस्य समावेशः भवति, अतः स्वार्थे ष्यञ्-प्रत्ययं कृत्वा 'तादर्थ्य' शब्दः सिद्ध्यति ।
index: 5.4.24 sutra: देवतान्तात्तादर्थ्ये यत्
देवतान्तात्तादर्थ्ये यत् - देवतान्तात्तादर्थ्ये यत् । तदर्थ एवेति । तच्छब्देन देवतान्तस्यार्थ उच्यते, तस्मै अयं तदर्थः, ततः स्वार्थे चतुर्वर्णादित्वात् ष्यञित्यर्थः । देवतान्तात्प्रातिपदिकाद्यत्स्यात्प्रकृत्यार्थे वस्तुनि वाच्य इत्यर्थः ।त्यज्यमानद्रव्ये उद्देश्यविशेषो देवता मन्त्रस्तुत्या चे॑त्युक्तंसास्य देवते॑त्यत्र अतः पितृदेवत्यं रक्षोदेवत्यमित्यादौ नाव्याप्तिः । तदाह — पितृदेवत्यमिति । देवताशब्दस्य देवा भावः । भाष्ये तु॒पितृदेवत्यमिति न सिध्यती॑त्याक्षिप्यदिवैरेआर्यकर्मणो देवः, तस्मात्स्वार्थे त॑लिति समाहितम् । हविः प्रति पित्रादीनामीआरत्वं स्वामित्यम् । हविस्तु यजमानस्य स्वम् । तच्च यजमानेन अग्न्याद्युद्देशेन त्यक्तं चेत्तदाग्न्यादिस्वामिकं भवितुमर्हति । अतो देवतात्वं त्यज्यमानद्रव्योद्देश्यत्वविसेषात्मकमेव भाष्यरीत्याऽपि पर्यवस्य तीत्यलम् ।
index: 5.4.24 sutra: देवतान्तात्तादर्थ्ये यत्
चतुर्थीसमर्थादिति। तादर्थ्ये चतुर्थ्या उपसंख्यानादेतल्लभ्यते। पितृदेवत्यमिति। पर्मधारयात्प्रत्ययः। कथं पुनरत्र सामानाधिकरण्यम्? कथं च न स्यात् ? जातिभेदात्, अन्या हि पितृजातिरन्या च देवताजातिः, दर्शयति च - देवा मनुष्याः पितरस्तेऽन्यत आसन्निति, देव एव देवता - स्वार्थिकस्तल् ? एवं तर्हि तल्प्रत्ययस्य प्रकृतिर्देअवशब्दः पचाद्यचि ऐश्वर्यार्थाद्दिवेः साध्यः; न जातिवचनः; ततः सामानाधिकरण्यं स्याद्देवतापितृशब्दयोः। एवं च देवदेवत्यमित्येतदपि सिद्धयति। यागसम्प्रदानमन्त्रस्तुत्यं वा देवता, न जीतिविशेष इत्यर्थः ॥