गिरेश्च सेनकस्य

5-4-112 गिरेः च सेनकस्य प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः टच् अव्ययीभावे

Sampurna sutra

Up

गिरेः अव्ययीभावे टच् अन्यतरस्याम्, सेनकस्य ।

Neelesh Sanskrit Brief

Up

सेनकस्य मतेन 'गिरि'शब्दान्तात् अव्ययीभावसमासात् 'टच्' इति समासान्तप्रत्ययः विकल्पेन भवति ।

Kashika

Up

गिरिशब्दान्तादव्ययीभावात् टच् प्रत्ययो भवति सेनकस्याचार्यस्य मतेन। अन्तर्गिरम्, अन्तर्गिरि। उपगिरम्, उपगिरि। सेनकग्रहणं पूजार्थम्। विकल्पोऽनुवर्तत एव॥

Siddhanta Kaumudi

Up

गिर्यन्तादव्ययीभावाट्टच् वा स्यात् । सेनकग्रहणं पूजार्थम् । उपगिरम् । उपगिरि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

यस्य अव्ययीभावसमासस्य अन्ते 'गिरि' इति शब्दः विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः विकल्पेन भवति । यथा - गिरेः समीपम् = उप + गिरि + टच् [वर्तमानसूत्रेण वैकल्पिकः टच्-प्रत्ययः] → उपगिर् + अ [<<यस्येति च>> 6.4.148 इति इकारलोपः] → उपगिर पक्षे टच्-प्रत्ययं विना 'उपगिरि' इति शब्दः अपि सिद्ध्यति । गिरेः समीपम् तत् उपगिरमुपगिरि वा । (अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> 2.4.83 इत्यनेन अम्-आदेशः भवति, अतः 'उपगिरम्' इति अम्-प्रत्ययान्तशब्दः एव प्रयुज्यते इति स्मर्तव्यम्) । विशेषः - अस्मिन् सूत्रे 'सेनकस्य' इति शब्दः 'सेनक' नाम्नः वैयाकरणस्य निर्देशार्थम् प्रयुक्तः अस्ति । अयम् निर्देशः केवलमादरार्थम् / पूजार्थमस्ति, विकल्पार्थम् न, यतः विकल्पः तु 'अन्यतरस्याम्' इत्यस्य अनुवृत्या एव लभ्यते ।

Balamanorama

Up

<<गिरेश्च सेनकस्य>> - गिरेश्च सेनकस्य । सेनको नामाचार्यः । पूजार्थमिति । अन्यतरस्याङ्ग्रहणानुवृत्त्यैव विकल्पसिद्धेरिति भावः । उपगिरमिति । गिरेः समीपमित्यर्थः । टचियस्येति चे॑तीकारलोपः । अम्भावः । इह सेनकग्रहणान्नदीपौर्णमासीत्यत्र 'झयः' इत्यत्र चाऽन्यतरस्याङ्र्गरहणं नानुवर्तत इति केचित् । इति बालमनोरमायामव्ययीभावः । — — — — — — — — — — — *अथ बहुव्रीहिसमासप्रकरणम् **

Padamanjari

Up

अन्तर्गिरमिति। विभक्तयर्तेऽव्ययीभावः। विकल्पोऽनुवर्तत एवेति। अन्यथा केषाञाचिज्झयन्तानां शरत्प्रभृतिषु पाठोऽनर्थकः स्यात्;'झयः' इत्यनेनैव सिद्धत्वात्। एतेनैतन्न चोदनीयम् -'द्वयोर्विभाषयोर्मध्ये नित्या विधयः' इति पूर्वस्य विधेर्नित्यत्वार्थमिदं सेनकग्रहणं स्यादिति ॥