सप्तमी शौण्डैः

2-1-40 सप्तमी शौण्डैः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सप्तम्यन्तं शौण्डादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। अक्षेषु शौण्डः, अक्षशौण्डः। अक्षधूर्तः। अक्षकितवः॥ शौण्ड। धूर्त। कितव। व्याड। प्रवीण। संवीत। अन्तर्। अन्तश्शब्दस्त्वत्राधिकरणप्रधान एव पठ्यते। अधि। पटु। पण्डित। कुशल। चपल। निपुण। वृत्तौ प्रसक्तिक्रियाया अन्तर्भावादक्षादिष्वधिकरणे सप्तमी॥

Siddhanta Kaumudi

Up

सप्तम्यन्तं शौण्डादिभिः प्राग्वद्वा । अक्षेषु शौण्डः अक्षशौण्डः । अधिशब्दोऽत्र पठ्यते । अध्युत्तरपदात् <{SK2079}> इति खः । ईश्वराधीनः ॥

Laghu Siddhanta Kaumudi

Up

सप्तम्यन्तं शौण्डादिभिः प्राग्वत् । अक्षेषु शौण्डः अक्षशौण्ड इत्यादि । द्वितीयातृतीयेत्यादियोगविभागादन्यत्रापि तृतीयादिविभक्तीनां प्रयोगवशात्समासो ज्ञेयः ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सप्तमी शौण्डैः>> - सप्तमी शौण्डैः । शौण्डादिभिरिति । बहुवचननिर्देशाद्गणपाठाच्च शौण्डशब्दस्तदादपरः । अक्षेषु शौण्ड इति । शौण्डः=क्रियाकुशलः । वौषयिकाधिकरणत्वे सप्तमी । अक्षविषयकक्रीडाकुशल इत्यर्थः । अत्रेति । शौण्डादावित्यर्थः । ईआराधीन इति । 'प्रपञ्च' इति शेषः । 'ईआरे अधि' इति विग्रहः । 'अधिरीओरे' इत्यधेः कर्मप्रवचनीयत्वम् ।यस्मादधिक॑मिति सप्तमी । तदन्तस्याऽधिना समासः । सुब्लुक् ।अषडक्षे॑त्यद्युत्तरपदत्वात्खः । ईनादेशः । 'ईआराधीन' इति रूपम् ।

Padamanjari

Up

अत्र साहचर्याद् धूर्तादिष्वजहत्स्वार्थ एव शौणडशब्दः प्रयुज्यते, यथा - च्छत्रिणो गच्छन्तीति। अत्र च प्रमाणं बहुवचननिर्द्देशः, अतेऽन्तरेणाप्यादिशब्दं तदर्थो गम्यते इत्याह - शौण्हादिभिरिति। गणपाठसामर्थ्यातु बहुवचननिर्देशोऽर्थनिर्देशार्यः, बहुवचनान्तस्य वा समासार्थ इति न चान्यत्सप्तम्या निम्तमस्ति। न चैतदेव ज्ञापकं शक्यमाश्रयितुम्; शौण्डो देवदत इत्यादावपि प्रसङ्गाद्, अत आह - वृताविति। अन्तःशब्दोऽत्र पठ।ल्ते, तद्योगेऽवयविन आधारत्वविवक्षायां सप्तमी, यथा वृक्षे शाखेति, वनेऽन्तर्वनान्तः। अस्य विकल्पितत्वादव्ययीभावोऽपि भवति, अन्तर्वणम्,'प्रनिरन्तः' इति णत्वम्। अधिशब्दः पठ।ल्ते, तस्याविकरणप्राधान्येऽव्ययीभावः - अधिसत्रीति। आधेयप्राधान्ये ह्ययं तत्पुरुषः - ब्राह्मणाधैइनमिति। ठद्यौतरपदात्खःऽ इति खः। ब्राह्मणेष्वधीति वाक्यम्॥