5-3-98 लुप् मनुष्ये प्रत्ययः परः च आद्युदात्तः च तद्धिताः कन् इवे इवे प्रतिकृतौ सञ्ज्ञायां
index: 5.3.98 sutra: लुम्मनुष्ये
इवे मनुष्ये संज्ञायाम् कनः लुप्
index: 5.3.98 sutra: लुम्मनुष्ये
'इव' इत्यस्य प्रयोगेण मनुष्यस्य संज्ञायां गम्यमानायाम् स्वार्थे विहितस्य कन्-प्रत्ययस्य लोपः भवति ।
index: 5.3.98 sutra: लुम्मनुष्ये
संज्ञायाम् इत्येव। संज्ञायां विहितस्य कनो मनुस्येऽभिधेये लुब् भवति। चञ्चेव मनुष्यः चञ्चा। दासी। खरकुटी। मनुस्ये इति किम्? अश्वकः। उष्ट्रकः। गर्दभकः। देवपथादेराकृतिगणत्वात् तस्य एव अयं प्रपञ्चो वेदितव्यः।
index: 5.3.98 sutra: लुम्मनुष्ये
संज्ञायां विहितस्य कनो लुप्स्यान्मनुष्ये वाच्ये । चञ्चा तृणमयः पुमान् । चञ्चेव मनुष्यश्चञ्चा । वर्ध्रिका ॥
index: 5.3.98 sutra: लुम्मनुष्ये
संज्ञायां च 5.3.97 इत्यनेन सूत्रेण 'इव' इत्यस्य प्रयोगेण संज्ञायाः निर्देशे कन्-प्रत्ययः विधीयते । परन्तु इयम् संज्ञा मनुष्यस्य संज्ञा अस्ति चेत् अस्य कन्-प्रत्ययस्य वर्तमानसूत्रेण लोपः भवति । यथा -
चञ्चा (scarecrow) इव अयम् मनुष्यः = चञ्चा + कन् → चञ्चा + X → चञ्चा । यथा चञ्चा वातम् वर्षाम् वा न सहते तथैव यः मनुष्यः वातवर्षादीन् सोढुम् न शक्नोति, तस्य निर्देशार्थम् इयं संज्ञा प्रयुज्यते । Just like a scarecrow (A human-shaped object placed in farms to scare bird away) cannot sustain rains / winds, in the same way a human who cannot sustain heavy rains / winds etc is termed as चञ्चा.
दासी इव अयम् मनुष्यः = दासी । यः मनुष्यः दासीवत् वर्तनम् करोति, तस्य अयम् निर्देशः ।
विशेषः -
अत्र प्रत्ययस्य लोपः 'लुप्' इति संज्ञया उक्तः अस्ति । लुपि युक्तवद्व्यक्तिवचने 1.2.51 इत्यनेन लुपि कृते प्रकृत्याः लिङ्गम् वचनम् च तद्धितान्तस्य विषये अपि विधीयेत - इति निर्देशयितुमयम् निर्देशः अत्र आवश्यकः । इत्युक्ते, 'चञ्चा इव अयम् मनुष्यः' इत्यनेन निर्दिष्टः मनुष्यः यद्यपि पुमान् अस्ति, तथापि 'चञ्चा' इति स्त्रीवाचकात् शब्दात् कन्-प्रत्ययं तस्य च लुप् कृत्वा 'चञ्चा' इति तद्धितान्तः शब्दः यः जायते, सः स्त्रीलिङ्गे एव स्यात् - इति अत्र आशयः । अतः 'अयम् चञ्चा मनुष्यः' इत्येव प्रयोगः साधु अस्ति ।
अस्मिन् सूत्रे काशिकाकारः वदति - ' देवपथादेराकृतिगणत्वात् तस्य एव अयं प्रपञ्चो वेदितव्यः' । इत्युक्ते, काशिकाकारस्य मतेन वर्तमानसूत्रस्य न काऽपि आवश्यकता, यतः अनेन सूत्रेण येषाम् शब्दानाम् विषये लोपः विधीयते ते सर्वे शब्दाः देवपथादिभ्यश्च 5.3.100 इत्यत्र निर्दिष्टे 'देवपथादिगणे' आकृतिगणत्वात् भवितुमर्हन्ति एव ।
index: 5.3.98 sutra: लुम्मनुष्ये
लुम्मनुष्ये - लुम्मनुष्ये । संज्ञायां चेति विहितस्येति । नतु 'इवेप्रतिकृतौ' इति विहतस्य प्रतिकृतित्वाऽसंभवादिति भावः । चञ्चेव मनुष्यः चञ्चेत्युदाहरणं वक्ष्यन्चञ्चाशब्दं व्याचष्टे — चञ्चा तृणमयः पुमानिति । चञ्चेति । चञ्चातुल्यो मनुष्योऽयं चञ्चासंज्ञक इत्यर्थः । वर्ध्रिकेति । वर्ध्रि चर्ममयी प्रतिकृतिः । तत्तुल्यो मनुष्योऽयं वर्ध्रिकासंज्ञक इत्यर्थः । लुपि युक्तवत्वात्स्त्रीत्वम् । वचनं तु विशेष्यवदेव,हरीतक्यादिषु व्यक्ति॑रित्युक्तेः । तेन 'चञ्चे इव मनुष्यौ' इत्यत्र चञ्चा इति न भवति ।
index: 5.3.98 sutra: लुम्मनुष्ये
चञ्चाउतृणपुरुषः, तत्सदृशो मनुष्यश्चञ्चा। लुपि युक्तवद्भावः।'मनुष्यलुपि प्रतिषेधः' इत्येततु विशेषणविषयम् ॥