संज्ञायां च

5-3-97 सञ्ज्ञायां च प्रत्ययः परः च आद्युदात्तः च तद्धिताः कन् इवे इवे प्रतिकृतौ

Sampurna sutra

Up

index: 5.3.97 sutra: संज्ञायां च


संज्ञायाम् इवे कन्

Neelesh Sanskrit Brief

Up

index: 5.3.97 sutra: संज्ञायां च


'इव' इत्यस्य प्रयोगेण यत्र संज्ञा निर्दिश्यते, तत्र प्रातिपदिकात् स्वार्थे कन्-प्रत्ययः भवति ।

Kashika

Up

index: 5.3.97 sutra: संज्ञायां च


इव इत्यनुवर्तते, कनिति च। इवार्थे गम्यमाने कन्प्रत्ययो भवति, समुदायेन चेत् संज्ञा गम्यते। अप्रतिकृत्यर्थ आरम्भः। अश्वसदृशस्य संज्ञा अश्वकः। उष्ट्रकः। गर्दभकः।

Siddhanta Kaumudi

Up

index: 5.3.97 sutra: संज्ञायां च


इवार्थे कन् स्यात्समुदायेन चेत्संज्ञा गम्यते । अप्रतिकृत्यर्थमारम्भः । अश्वसदृशस्य संज्ञा । अश्वकः । उष्ट्रकः ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.97 sutra: संज्ञायां च


इवे प्रतिकृतौ 5.3.96 इत्यनेन प्रतिकृतेः विषये कन्-प्रत्ययविधानम् क्रियते । परन्तु यत्र 'इव' इत्यस्य प्रयोगः प्रतिकृतिभिन्नविषये क्रियते (When the word इव is used to indicate similarity between two distinct entities, neither of which is a photocopy or a model of another), तत्रापि केषुचन स्थलेषु कन्-प्रत्ययान्तरूपम् प्रयुज्यते । एतादृशानां रूपाणां साधुत्वार्थमस्य सूत्रस्य निर्माणं कृतमस्ति ।

यथा - 'अश्वः इव इदम् वस्तु, अस्य नाम अश्वकः' । अत्र किञ्चन वस्तु अश्वः (उत तस्य प्रतिकृतिः) नास्ति, परन्तु अश्वः इव दृश्यते । तस्य संज्ञानिर्माणार्थम् 'अश्व' शब्दात् 'कन्' प्रत्ययं कृत्वा 'अश्वक' इति शब्दः सिद्ध्यति । यथा - शिशूनाम् क्रीडनकमश्व इव दृश्यते, तस्य नाम 'अश्वक' इति दीयते । A toy horse is termed अश्वक if it looks similar (not necessarily identical) to an अश्व.

ज्ञातव्यम् - केवलम् संज्ञायाः विषये एव अस्य सूत्रस्य प्रयोगः भवति । अतः इदम् सूत्रम् शिष्टप्रयोगमनुसृत्यैव प्रयोक्तव्यम् ।

Balamanorama

Up

index: 5.3.97 sutra: संज्ञायां च


संज्ञायां च - संज्ञायां च ।क॑निति शेषः । समुदायश्चेदिति । प्रकृतिप्रत्ययसमुदायश्चेत्प्रकृत्यर्थसदृशस्य संज्ञेत्यर्थः । पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह — अप्रतिकृत्यर्थमारम्भ इति तथाच प्रतिकृताविति निवृत्तम् । इव इति त्वनुवर्तत एव । तदाह — अआसदृशस्येति । अआसदृशश्य अमनुष्यस्य कस्यचित्संज्ञैषा । अआसदृशोऽयमआकसंज्ञक इति बोधः ।