जीविकार्थे चापण्ये

5-3-99 जीविकार्थे च अपण्ये प्रत्ययः परः च आद्युदात्तः च तद्धिताः कन् इवे इवे प्रतिकृतौ सञ्ज्ञायां लुप्

Sampurna sutra

Up

इवे कनः जीविकार्थे अपण्ये लुप्

Neelesh Sanskrit Brief

Up

यदि कश्चन प्रतिकृतिः जीविकार्थे प्रयुज्यते परन्तु विक्रयणार्थम् नास्ति, तर्हि तस्मात् 'इव' अस्मिन् सन्दर्भे विहितस्य कन्-प्रत्ययस्य लुक् भवति ।

Kashika

Up

जीविकार्थं यदपण्यं तस्मिन्नभिधेये कनो लुब् भवति। विक्रीयते यत् तत् पण्यम्। वासुदेवः। शिवः। स्कन्दः। विष्णुः। आदित्यः। देवलकादीनां जीविकार्था देवप्रतिकृतय उच्यन्ते। अपण्य इति किम् ? हस्तिकान् विक्रीणीते। अश्वकान्। रथकान्। देवपथादेरेवायं प्रपञ्चः॥

Siddhanta Kaumudi

Up

जीविकार्थं यदविक्रीयमाणं तस्मिवन्वाच्ये कनो लुप्स्यात् । वासुदेवः । शिवः । स्कन्दः । देवलकानां जीविकार्थासु देवप्रतिकृतिष्विदम् । अपण्ये किम् । हस्तिकान्विक्रीणीते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'इव' शब्दस्य प्रयोगेण यत्र प्रतिकृतिः निर्दिश्यते, तत्र <<इवे प्रतिकृतौ>> 5.3.96 इत्यनेन प्रातिपदिकात् स्वार्थे कन्-प्रत्ययः भवति । परन्तु यदि इयम् प्रतिकृतिः जीविकार्थे अस्ति (used in the process of earning money) परन्तु पण्यम् नास्ति (not sold away / not made available for selling), तर्हि तस्य विषये कन्-प्रत्ययस्य लुप् भवति । यथा - 1. कश्चन ब्राह्मणः शिवस्य कांश्चन मूर्तिम् स्वीकृत्य मन्दिरे स्थापयतीति चिन्तयामः । अत्र ब्राह्मणस्य कृते इयम् मूर्तिः जीविकायाः साधनमस्ति (यतः मन्दिरे भक्तजनाः दर्शनं स्वीकृत्य दक्षिणाम् ददति येन धनिकस्य जीविका प्रचलति) परन्तु इयम् मूर्तिः पण्या नास्ति (यतः ब्राह्मणः मूर्तेः विक्रयणम् न करोति) । अस्यां स्थितौ शिवस्य अस्याः प्रतिकृतेः निर्देशार्थम् <<इवे प्रतिकृतौ>> 5.3.96 इत्यनेन विहितस्य कन्-प्रत्ययस्य लुप् भवति । शिवः इव इयम् प्रतिकृतिः या जीविकार्थे अस्ति परन्तु पण्ये नास्ति सा = शिव + कन् → शिव + X → शिव । 2. कश्चन भिक्षुकः कृष्णस्य एकां मूर्तिम् गृहीत्वा गृहं गृहं गत्वा कृष्णस्य नाम्ना भिक्षां याचते इति चिन्तयामः । अत्र भिक्षुकस्य कृते इयम् प्रतिकृतिः जीविकायाः साधनमस्ति, परन्तु पण्यम् नास्ति । अस्यां स्थितौ अतः अस्याः प्रतिकृतेः निर्देशम् कर्तुम् <<इवे प्रतिकृतौ>> 5.3.96 इत्यनेन विहितः कन्-प्रत्ययः लुप्यते । यथा - कृष्णः इव इयम् प्रतिकृतिः या जीविकार्थे अस्ति परन्तु पण्ये नास्ति, सा = कृष्ण + कन् → कृष्ण + X → कृष्णः ।

Balamanorama

Up

<<जीविकाऽर्थे चापण्ये>> - जीविकार्थे चापण्ये । पण्यं — विक्रीयमाणम् । तदाह — अविक्रीयमाणमिति । वासुदेव इति । वासुदेवतुल्या जीविकार्था अविक्रेया प्रतिकृतिरित्यर्थः । एवं शिव इत्यादि । कथं प्रतिकृतेरविक्रेयाया जीविकार्थत्वमित्यत आह — देवलकानामिति । प्रतिमां गृहीत्वा भिक्षार्थं प्रतिगृहमटतामित्यर्थः । तत्तदायतनेषु प्रतिष्ठितासु पूजार्थप्रतिमासु उत्तरसूत्रेण लुब्वक्ष्यते । हस्तिकान्विक्रीणीते इति । जीविकार्थं हस्तितुल्यप्रतिकृतीर्विक्रीणीते इत्यर्थः । अत्र पण्यत्वप्रतीतेः कनो न लुक् ।सज्ञायां चे॑तिज विहितस्य नायं लुप्, किन्तु 'इवे प्रतिकृतौ' इति विहितस्यैव, भाष्ये प्रतिकृतावेव एतदुदाहरणात् । पठन्ति । चाभियुक्ताः — ॒रामं सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो रामादिशब्दाः प्रतिकृतिषु वर्तन्ते । तासां चात्र पण्यतया कनो लुब्दुर्लभ इति रामसीतालक्ष्मणशब्दानामपशब्दत्वमित्याशयः ।

Padamanjari

Up