5-3-93 वा बहूनां जातिपरिप्रश्ने डतमच् प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः किंयत्तदः निर्धारणे एकस्य डतरच्
index: 5.3.93 sutra: वा बहूनां जातिपरिप्रश्ने डतमच्
बहूनाम् एकस्य जातिपरिप्रश्ने निर्धारणे किम्-यत्-तदोः डतमच् वा
index: 5.3.93 sutra: वा बहूनां जातिपरिप्रश्ने डतमच्
बहुषु एकस्य निर्धारणम् कर्तव्यमस्ति चेत् 'किम्', 'यत्', 'तद्' एतेभ्यः शब्देभ्यः स्वार्थे विकल्पेन 'डतमच्' प्रत्ययः भवति । पक्षे औत्सर्गिकः अकच्-प्रत्ययः अपि विधीयते ।
index: 5.3.93 sutra: वा बहूनां जातिपरिप्रश्ने डतमच्
किंयत्तदः इति वर्तते निर्धारने, एकस्य इति च। बहूनाम् इति निर्धारने षष्ठी। बहुनां मध्ये एकस्य निर्धारने गम्यमाने जातिपरिप्रश्नविषयेभ्यः किमादिभ्यः वा डतमच् प्रत्ययो भवति। कतमो भवतां कठः। यतमो भवताम् कठः, ततम आगच्छतु। वावचनमकजर्थम्। यको भवतां कठः, सक आगच्छतु। महाविभाषा च प्रत्ययविकलोपार्था अनुवर्तते एव। को भवतां कठः। यो भवतां कठः, स आगच्छतु। जातिपरिप्रश्ने इति किम्? को भवताम् देवदत्तः। परिप्रश्नग्रहणं च किम एव विशेषणं, न यत्तदोः, असम्भवात्। जातिग्रहणं तु सर्वैरेव सम्बद्यते। किमोऽस्मिन् विषये डतरमपि इच्छन्ति केचित्, कतरो भवतां कालापः इति। तत्र कतरकतमौ जातिपरिप्रश्ने 2.1.63 इति वचनात् सिद्धम्।
index: 5.3.93 sutra: वा बहूनां जातिपरिप्रश्ने डतमच्
बहूनां मध्ये एकस्य निर्धारणे डतमच् वा स्यात् । जातिपरिप्रश्न इति प्रत्याख्यातमाकरे । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः । महाविभाषया । यः । सः ।<!किमोऽस्मिन्विषये डतरजपि !> (वार्तिकम्) ॥ कतरः ॥
index: 5.3.93 sutra: वा बहूनां जातिपरिप्रश्ने डतमच्
जातिपरिप्रश्न इति प्रत्याख्यातमाकरे । बहूनां मध्ये एकस्य निर्धारणे इतमज्वा स्यात् । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः ॥ इति प्रागिवीवीयाः ॥ १५ ॥
index: 5.3.93 sutra: वा बहूनां जातिपरिप्रश्ने डतमच्
निर्धारणम् इत्युक्ते निश्चयः / निर्वचनम् (determination / selection / ascertainment / specification) । यत्र बहुषु पदार्थेषु कस्यचन निर्धारणम् करणीयमस्ति, तत्र 'किम्', 'यत्', 'तद्' एतेभ्यः शब्देभ्यः स्वार्थे 'डतमच्' इति प्रत्ययः भवति । The डतमच् प्रत्यय is used to separate a particular entity from many entities on the basis of certain quality / action / name / group etc. । क्रमेण पश्यामः -
1) अनेकेषु कः (who amongst many) अस्मिन् सन्दर्भे 'किम्' शब्दात् स्वार्थे 'डतमच्' प्रत्ययः भवति ।
अनेकेषु कः इत्येव
= किम् + डतमच्
→ किम् + अतम [डकारचकारयोः इत्संज्ञा, लोपः]
→ क + अतम [डित्-प्रत्यये परे टेः 6.4.143 इति अङ्गस्य टिलोपः]
→ कतम [अतो गुणे 6.1.97 इति पररूप-एकादेशः]
यथा - भवतां कतमः देवदत्तः ? Who amongst you all is देवदत्त ?
3) 'अनेकेषु यः' अस्मिन् सन्दर्भे 'यद्' शब्दात्, तथा 'अनेकेषु सः' अस्मिन् सन्दर्भे 'तद्' शब्दात् स्वार्थे डतमच् प्रत्ययः भवति ।
अनेकेषु यः इत्येव = यद् + डतमच् → यतम। Whosoever amongst many इत्यर्थः ।
अनेकेषु सः इत्येव = तद् + डतमच् → ततम ।That amongst many इत्यर्थः ।
यथा - यतमः भवतां देवदत्तः, ततमः अत्र आगच्छतु ।
विशेषः -
अनेन सूत्रेण निर्मिताः 'कतम', 'यतम', 'ततम' एते शब्दाः सर्वनामसंज्ञकाः सन्ति । सर्वादीनि सर्वनामानि 1.1.27 इत्यस्मिन् सूत्रे निर्दिष्टे सर्वादिगणे 'डतर' तथा 'डतम' एतयोः प्रत्यययोः निर्देशः कृतः अस्ति । अयम् निर्देशः 'डतरच्' तथा 'डतमच्' एतयोः विषये एव अस्ति । एतयोः प्रत्यययोः योजनेन निर्मिताः शब्दाः सर्वनामसंज्ञकाः भवन्ति - इति अस्य अर्थः । अतएव 'कतम', 'यतम', 'ततम' एतेषाम् सर्वनामसंज्ञा भवति ।
अस्मिन् सूत्रे 'वा' इति निर्देशः क्रियते । अव्ययसर्वनाम्नामकच्प्राक्टेः 5.3.71 इत्यनेन विहितस्य अकच्-प्रत्ययस्य वैकल्पिक-विधानार्थमयं निर्देशः कृतः अस्ति । अतः अनेन सूत्रेण उक्तेषु सन्दर्भेषु पक्षे 'अकच्' प्रत्ययः अपि भवति ।
अ) अनेकेषु यः इत्येव = यः + अकच् → यकः ।
आ) अनेकेषु सः इत्येव = सः + अकच् → सकः ।
इ) अनेकेषु कः इत्येव - किम् + अकच् + सुँ → कः । (अस्य प्रक्रिया अव्ययसर्वनाम्नामकच् प्राक् टेः 5.3.71 इत्यत्र निर्दिष्टा अस्ति ।)
उदाहरणम् - भवताम् कः देवदत्तः ? यकः देवदत्तः, सकः आगच्छतु ।
समर्थानां प्रथमाद्वा 4.1.82 इतस्मात् प्रारब्धः 'वा' इत्यस्य अधिकारः अत्र प्रचलन् अस्ति, अतः 'अकच्' तथा 'डतमच्' एतौ द्वौ अपि प्रत्ययौ विकल्पेन भवतः । अतः 'भवताम् कः देवदत्तः ? यः देवदत्तः सः आगच्छतु' एतादृशम् वाक्यमपि साधु एव ।
अस्मिन् सूत्रे 'निर्धारणम्' (= चयनम्) अस्मिन् सन्दर्भे प्रत्ययविधानं कृतमस्ति । एतत् चयनम् चतुर्भिः प्रकारैः सम्भवति - इति काशिकायाम् स्पष्टीक्रियते । अस्मिन् विषये काशिकाकारः वदति - जात्या, क्रियया, गुणेन, संज्ञया वा समुदायादेकदेशस्य पृथक्करणं निर्धारणम्। । इत्युक्ते, यत्र जात्याः आधारेण, क्रियायाः आधारेण, गुणस्य आधारेण उत संज्ञायाः आधारेण पृथक्करणम् क्रियते, तत्रैव तस्य नाम 'निर्धारणम्' इति दीयते । अस्यां स्थितौ वर्तमानसूत्रस्य प्रयोगः भवितुमर्हति । अस्य उदाहरणानि एतानि -
अ) जात्याः आधारेण निर्धारणम् - कतमः एतेषामश्वः ?
आ) क्रियायाः आधारेण निर्धारणम् - यतमः एतेषाम् कारकः ।
इ) गुणस्य आधारेण निर्धारणम् - ततमः एतेषाम् शूरः ।
ई) संज्ञायाः आधारेण निर्धारणम् - कतमः एतेषां देवदत्तः ?
अस्मिन् विषये यतश्च निर्धारणम् 2.3.41 इत्यस्मिन् सूत्रे विस्तारेण पाठितमस्ति ।
अत्र एकम् वार्त्तिकमपि ज्ञेयम् - <!किमोऽस्मिन्विषये डतरजपि !> । इत्युक्ते, 'किम्' सर्वनाम्नः विषये बहुषु एकस्य निर्धारणे डतरच्-प्रत्ययः अपि भवितुमर्हति । यथा - 'कतरः भवताम् देवदत्तः' इति । अत्र वस्तुतः बहुषु एकस्य निर्धारणम् कर्तव्यमस्ति, अतश्च 'डतमच्' प्रत्ययः एव साधु । परन्तु अनेन वार्त्तिकेन अत्र 'डतरच्' प्रत्ययः अपि भवितुमर्हति ।
अन्य एकः बिन्दुः अत्र ज्ञेयः - अस्मिन् वार्त्तिके 'बहुषु एकस्य निर्धाणरम्' इत्यस्मिन् सन्दर्भे केवलं 'किम्' शब्दस्य विषये एव डतरच्-प्रत्ययः उक्तः अस्ति, 'यद्' तथा 'तद्' एतयोः विषये न । परन्तु भाष्यकारस्य मतेन 'किम्', 'यत्', 'तत्' - एतेषाम् सर्वेषाम् विषये 'बहुनाम् एकस्य निर्धारणम् ' अस्मिन् सन्दर्भे डतरच् प्रत्ययः भवितुमर्हति । अतः 'भवताम् यतरः देवदत्तः ततरः आगच्छतु' इति वाक्यमपि भाष्यकारस्य मतेन साधु एव ।
स्मर्तव्यम् -
अस्मिन् सूत्रे 'निर्धारणे' इति 'विषयसप्तमी' अस्ति । निर्धारणस्य विवक्षायाम् अस्य सूत्रस्य प्रयोगः भवति - इति अस्य अर्थः ।
अत्र प्रयुक्तः 'बहूनाम्' इति निर्धारणषष्ठी अस्ति । 'बहूनाम् मध्ये' इति अस्य अर्थः ।
तद्धिताधिकारे द्विवचनविभज्योपपदे तरबीयसुनौ 5.3.57 इत्यनेन 'तमप्' इति अपि किञ्चन प्रत्ययः पाठ्यते । अयम् प्रत्ययः सर्वथा भिन्नः अस्ति, अस्य योजनेन रुपाणि अपि भिद्यन्ते (यथा - किम् + तमप् → किंतम) इति ज्ञातव्यम् ।4. वर्तमानसूत्रेण उक्तः डतरच्-प्रत्ययः 'किम्' 'यद्', तथा 'तद्' एतेभ्यः त्रिभ्यः शब्देभ्यः एव विधीयते । अन्येभ्यः शब्देभ्यः अस्य प्रसक्तिः नास्ति ।
index: 5.3.93 sutra: वा बहूनां जातिपरिप्रश्ने डतमच्
वा बहूनां जातिपरिप्रश्ने डतमच् - वा बहूनाम् । किंयत्तद इति, निर्धारणे इति, एकस्येति चानुवर्तते । बहूनामिति निर्धारणे षष्ठी । तदाह — बहूनां मध्ये निर्धारणे डतमज्वा स्यादिति । 'मध्ये' इत्यनन्तरम् — एकस्येति शेषः । जातिपरिप्रश्ने गम्ये इत्यपि बोध्यम् । जातिश्च परिप्रश्नश्चेति समाहारद्वन्द्लः । जातौ परिप्रश्ने च गम्ये इत्यर्थः । तत्र जाताविति किंयत्तदां सर्वेषामेव विशेषणम् । परिप्रश्नग्रहणं तु किम एव विशेषणं, तच्च क्षेपार्थकस्य किमो निवृत्त्यर्थम् । यत्तदोस्तु परिप्रश्नग्रहणं न विशेषणम्, असंभवादिति वृत्तौ स्पष्टम् । अत्र वार्तिकम् — ॒किमादीनां द्विबह्वर्थे प्रत्ययविधानापरिप्रश्नग्रहणं न विशेषणम्, असंभवादिति वृत्तौ स्पष्टम् । अत्र वार्तिकम् — ॒किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाध्यानर्थक्य॑मिति ।पूर्वसूत्रे द्वयोरिति, अत्र सूत्रे जातिपरिप्रश्ने इति च न कर्तव्ये इति भाव॑ इति कैयटः । तदाह — प्रत्याख्यातमाकरे इति । क्षेपार्थस्य त्वनभिदानान्न ग्रहणमिति तदाशयः । पूर्वसूत्रे द्वयोरिति चेति बोध्यम् । तथाचकतम एषां पाचकः, शूरो, देवदत्तः, इत्यत्र क्रियागुणसंज्ञाभिरपि निर्धारणे डतमज् भवति ।एषां कतरो देवदत्तः॑ इत्यत्र बहूनाम#एकस्य निर्धारणे डतरच् भवति । अत एव प्रत्ययः॑ इति सूत्रभाष्येबहुष्वासीनेषु कस्छित् कंचित्पृच्छति कतरो देवदत्तः॑ इति प्रयोगः सङ्गच्छते । कतमो भवतां कठ इति ।गोत्रं च चरणैः सहे॑ति कठस्य जातित्वम् । वाग्रहणमकजर्थमिति । अन्यथा महाविभाषया.ञपवादेन मुक्ते उत्सर्गस्याऽप्रवृत्तेरुक्तत्वादकच् न स्वादिति भावः । नचअव्ययसर्वनाम्ना॑मित्यस्याधिकारत्वात्तदनुवृत्त्यैव सिद्धे वाग्रहणं व्यर्थमेवेति वाच्यम्, इहैव सूत्रे तदनुवृत्तिर्नतु पूर्वसूत्रे इति ज्ञापनार्थत्वात् । अतो डतरज्विषये नाऽकच् । महाविभाषयेति । अत एव 'अवक्षेपणे' इति सूत्रे भाष्येक एतयोरर्थयोर्विशेषः॑ इति प्रयोगः सङ्गच्छते ।तमबादयः प्रागवक्षेपणकनो नित्याः प्रत्ययाः॑ इति तु प्रायिकमिति भावः । किमोऽस्मिन्निति ।वा बहूना॑मिति प्रकृतसूत्रविषयेऽपीत्यर्थः, बहुष्वासीनषु इत्याद्युदाहृतभाष्यप्रयोगादिति भावः ।
index: 5.3.93 sutra: वा बहूनां जातिपरिप्रश्ने डतमच्
जातिपरिप्रश्नविषयेभ्य इति। जातिपरिप्रश्नौ यथासम्भवं विषयौ येषां ते तथोक्ताः। सूत्रे पुनः समाहारद्वन्द्वः। सन्निधानाच्च परिप्रश्नोऽपि जातेरेव विज्ञायते, यथा -'गुणो यङ्लुकोः' इत्यत्र यङ् च यङ्लुक्चेति। एवं च कृत्वा जातिपरिप्रश्नग्रहणं किम एव विशेषणम्।'जातिग्रहणं तु सर्वैरपि सम्बध्यते' इति वक्ष्यमाणमुपपद्यते। षष्ठीसमासे तु गुणभूतस्य जातिग्रहणस्य निष्कृष्य सम्बन्धोऽनुपपन्नः स्यात्। परिप्रश्नग्रहणं क्षेपनिवृत्यर्थम्। वावचनमकजर्थमिति। कथं तर्हि वाक्यस्य सिद्धिः? तत्राह - महाविभाषेत्यादि। किमोऽस्मिन्विषय इति। द्वयोरेकस्य निर्द्धारण उक्तौ बहूनामेकस्य निर्द्धारणे न स्यादिति वचनम्। कथं पुनरिष्यमाणोऽपि लभ्यते? तत्राऽऽह - तत्रत्यादि। ननु कतरो भवतोः कठ इति द्वयोरेकस्य निर्द्धारणेऽपि जातिपरिप्रश्नस्य सम्भवान्नानेन वचनेन बहूनामेकस्य निर्द्धारणे डतरच् शक्यो ज्ञापयितुम्? एवं तर्हि -'समासविधौ कतरकतमौ जतिपरिप्रश्ने साधू भवतः' इत्यपि व्याख्येयमिति मन्यते। अजातिपरिप्रश्नेऽपि किमो डतमज् भवति - कतमो भवतोर्देअवदत इति, कथम् ? कतरकतमावित्यत्र जातिपरिप्रश्नग्रहणात्। यदि हि कतमशब्दो जातिपरिप्रश्नादन्यत्र न स्यात्, ततस्तत्साहचर्यात्कतरशब्दोऽपि तदर्त एव ग्रहीष्यत इत्यनर्थकं तत्स्यात् ॥