5-3-88 कुटीशमीशुण्डाभ्यः रः प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः
ह्रस्वे कुटी-शमी-शुण्डाभ्यः रः
'ह्रस्व' इत्यस्य विशेष्यरूपेण विहितेभ्यः 'कुटी', 'शमी', 'शुण्डा' एतेभ्यः शब्देभ्यः स्वार्थे 'र' प्रत्ययः भवति ।
ह्रस्व इत्येव। संज्ञाग्रहणं नानुवर्तते, सामान्येन विधानम्। कुटीशमीशुण्डाभ्यो ह्रस्वार्थे द्योत्ये रः प्रत्ययो भवति। कस्यापवादः। ह्रस्वा कुटी कुटीरः। शमीरः। शुण्डारः। स्वार्थिकत्वेऽपि पुँल्लिङ्गता, लोकाश्रयत्वाल् लिङ्गस्य॥
ह्रस्वः कुटी कुटीरः । शमीरः । शुण्डारः ॥
'ह्रस्व' (यत् दीर्घः नास्ति तत्, short) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् <<ह्रस्वे>> 5.3.86 इत्यनेन औत्सर्गिकरूपेण क-प्रत्यये प्राप्ते 'कुटी', 'शमी', 'शुण्डा' एतेषां विषये तं बाधित्वा 'र' प्रत्ययः भवति । 1. ह्रस्वा कुटी (small-sized hut) इत्येव = कुटी + र → कुटीर । 2. ह्रस्वा शमी (legume) इत्येव = शमी + र → शमीर । 3. ह्रस्वा शुण्डा (trunk) इत्येव = शुण्डा + कन् → शुण्डार । स्मर्तव्यम् - 'कुटीर', 'शमीर', 'शुण्डार' एते त्रयः अपि तद्धितान्ताः शब्दाः पुंलिङ्गे प्रयुज्यन्ते ।
<<कुटीशमीशुण्डाभ्यो रः>> - कुटीशमी । ह्रस्व इत्येव कुटीर इति ।स्वार्थिकाः क्वचित्प्रकृतितो लिह्गवचनान्यतिवर्तन्ते॑ इति पुंस्त्वम् । एवं शमीरः शुण्डार इत्यपि । ह्रस्वा शमी, शुण्डा चेत्यर्थः ।