संज्ञायां कन्

5-3-87 सञ्ज्ञायां कन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः ह्रस्वे

Sampurna sutra

Up

index: 5.3.87 sutra: संज्ञायां कन्


ह्रस्वे प्रातिपदिकात् संज्ञायां कन्

Neelesh Sanskrit Brief

Up

index: 5.3.87 sutra: संज्ञायां कन्


'ह्रस्व' इत्यस्य विशेष्यरूपेण विहितात् प्रातिपदिकात् संज्ञायां गम्यमानायां स्वार्थे 'कन् ' प्रत्ययः भवति ।

Kashika

Up

index: 5.3.87 sutra: संज्ञायां कन्


ह्रस्वे इत्येव। ह्रस्वत्वहेतुका या संज्ञा तस्यां गम्यमानायां कन्प्रत्ययो भवति। पूर्वस्य अयमपवादः। वंशकः। वेणुकः। दण्डकः।

Siddhanta Kaumudi

Up

index: 5.3.87 sutra: संज्ञायां कन्


ह्रस्वहेतुका या संज्ञा तस्यां गम्यमानायां कन् । पूर्वस्यापवादः । वंशकः । वेणुकः ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.87 sutra: संज्ञायां कन्


'ह्रस्व' (यत् दीर्घः नास्ति तत्, short) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् ह्रस्वे 5.3.86 इत्यनेन क-प्रत्यये प्राप्ते संज्ञायाः विषये तं बाधित्वा कन्-प्रत्ययः भवति ।

यथा -

  1. ह्रस्वः वंशः (= bamboo cane) इत्येव = वंश + कन् → वंशकः । A वंशक is a term given for a small bamboo cane.

  2. ह्रस्वः वेणुः (= flute) इत्येव = वेणु + कन् → वेणुकः । A वेणुक is a term given for a small flute.

  3. ह्रस्वः दण्डः इत्येव = दण्ड + कन् → दण्डकः । A दण्डक is a term given for a small दण्ड . (rod)

स्मर्तव्यम् - 'क' तथा 'कन्' प्रत्ययाभ्याम् उभाभ्यां समानमेव रूपं जायते, परन्तु द्वयोः रूपयोः स्वरभेदः विद्यते । 'क' प्रत्ययान्तशब्दानामन्तिमः अकारः आद्युदात्तश्च 3.1.3 इत्यनेन उदात्तसंज्ञकः अस्ति । परन्तु 'कन्' प्रत्ययान्तशब्दानाम् विषये तु प्रथमः स्वरः ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन उदात्तसंज्ञकः भवति । एतत् भेदम् स्पष्टीकर्तुम् एव अत्र 'कन्' इति प्रत्ययः विशिष्टरूपेण प्रोक्तः अस्ति ।

Balamanorama

Up

index: 5.3.87 sutra: संज्ञायां कन्


संज्ञायां कन् - संज्ञायां कन् । वंशक इति । ह्रस्वस्य वेणुजातिविशेषस्य नाम ।

Padamanjari

Up

index: 5.3.87 sutra: संज्ञायां कन्


कुतूरित्यावपनस्याख्येति। यद्यप्यावपनमात्रस्याख्या, तथापि डुपच्प्रत्ययान्तस्वभावादुक्तम् - चर्ममयं स्नेहबाजनमुच्यत इति ॥