मानपश्वङ्गयोः कन्लुकौ च

5-3-51 मानपश्वङ्गयोः कन्लुकौ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः भागे अन् षष्ठाष्टमाभ्यां

Sampurna sutra

Up

भागे षष्ठ-अष्टमाभ्याम् मान-पश्वङ्गयोः (सन्दर्भे) कन्-लुकौ च

Neelesh Sanskrit Brief

Up

'षष्ठ' तथा 'अष्टम' एतौ शब्दौ 'भाग' इत्यस्य विशेषणरूपेण 'मानम्' तथा 'पश्वङ्गम्' एतयोः सन्दर्भयोः प्रयुज्यते तर्हि तेभ्यः स्वार्थे विकल्पेन यथासङ्ख्यम् कन्-प्रत्ययः तथा च प्रत्ययस्य लुक् भवति ।

Kashika

Up

भाग इत्येव। षष्ठाष्टमाभ्यां यथासंख्यं कन्लुकौ च भवतो मानपश्वङ्गयोर्भागयोरभिधेययोः। षष्ठको भागो मानं चेत् तद् भवति। अष्टमो भागः पश्वङ्गं चेत् तद् भवति। कस्य लुक् ? ञस्य लुक् , अनो वा। चकाराद् यथाप्राप्तं च। षाष्ठः, षष्ठः। आष्टमः, अष्टमः। मानपश्वङ्गयोरिति किम्? षाष्ठः। षष्ठः। आष्टमः। अष्टमः॥

Siddhanta Kaumudi

Up

षष्ठाष्टमशब्दाभ्यां क्रमेण कन्लुकौ स्तो माने पश्वङ्गे च वाच्ये । षष्ठको भागः मानं चेत् । अष्टमो भागः पश्वङ्गं चेत् । ञस्य अनो वा लुक् । चकाराद्यथाप्राप्तम् । षष्ठः । षाष्ठः । अष्टमः । आष्टमः । महाविभाषया सिद्धे लुग्वचनं पूर्वत्र ञानौ नित्याविति ज्ञापयति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'षष्ठ' तथा 'अष्टम' एतौ द्वौ पूरणप्रत्ययान्तशब्दौ । एतयोः प्रयोगः 'भागः' इत्यस्य विशेषणरूपेण यत्र भवति, तत्र ताभ्याम् स्वार्थे <<षष्ठाष्टमाभ्यां ञ च>> 5.3.50 इत्यनेन 'अन्' तथा 'ञ' प्रत्ययौ भवतः । परन्तु यदि अयम् भागः 'मानम्' (measurement) उत पश्वङ्गम् (= पशोः अङ्गम्, organ of an animal) अस्मिन् सन्दर्भे प्रयुज्यते, तर्हि 'षष्ठ' शब्दात् विकल्पेन कन्-प्रत्ययः भवति, तथा च अष्टम-शब्दात् विहितयोः प्रत्यययोः विकल्पेन लुक् भवति । क्रमेण पश्यामः - 1) 'षष्ठः भागः मानम्' अस्मिन् सन्दर्भे षष्ठ-शब्दात् स्वार्थे कन्-प्रत्ययः विकल्पेन भवति । यथा - षष्ठः भागः मानम् = षष्ठ + कन् → षष्ठकः । If sixth part of an object is used as a measurement, then that sixth part is called षष्ठक । That is, if an object has certain markings such that 1/6th of that can be used as a unit of measurement, then that 1/6th part is called षष्ठक. For example, '10 minutes' can be referred as षष्ठक because it is 1/6 of an hour. पक्षे पूर्वसूत्रेण अन् / ञ प्रत्ययौ कृत्वा षष्ठः भागः / षाष्ठः भागः एतौ शब्दौ अपि सिद्ध्यतः । विशेषः - पदमञ्जरीकारः अत्र 'मानम्' इत्यस्य अर्थः 'व्रीहिपरिमितम् सुवर्णम्' इति करोति । Sixth part of a certain quantity of gold that is used as unit of measurement - इति अस्य आशयः । 2) 'अष्टमः भागः पश्वङ्गम्' अस्मिन् सन्दर्भे अष्टम-शब्दात् स्वार्थे विहितयोः अन् / ञ-प्रत्यययोः विकल्पेन लुक् भवति । यथा - अष्टमः भागः पश्वङ्गम् = अष्टम + अन्/ञ → अष्टम + X → अष्टम । If eighth part of an object is used to refer to an organ of an animal, then that part is called अष्टम । अस्य विशिष्टानि उदाहरणानि व्याख्यानेषु न दृश्यन्ते । पक्षे पूर्वसूत्रेण अन् / ञ प्रत्ययौ कृत्वा अष्टमः भागः / आष्टमः भागः एतौ शब्दौ अपि सिद्ध्यतः । विशेषः - 'अन्' प्रत्यये कृते प्राप्तः 'अष्टमः शब्दः तथा लुकि कृते प्राप्तः 'अष्टम' शब्दः एतयोर्मध्ये स्वरभेदः अस्ति । अन्-प्रत्ययान्तस्य 'अष्टम' शब्दस्य आदिस्वरः अकारः <<ञ्नित्यादिर्नित्यम्>> 6.1.197 इत्यनेन उदात्तसंज्ञकः अस्ति । परन्तु लुकि कृते प्राप्तस्य अष्टम-शब्दस्य मकारोत्तरः अकारः <<आद्युदात्तश्च>> 3.1.3 इत्यनेन उदात्तसंज्ञकः भवति ।

Balamanorama

Up

<<मानपश्वङ्गयोः कन्लुकौ च>> - मानपआङ्गयोः ञस्य अनो वेति । अष्टकशब्दात्पूर्वसूत्रविहितस्य ञप्रत्ययस्य अन्प्रत्ययस्य च अनेन लुगित्यर्थः । चकाराद्यथाप्राप्तमिति । ञप्रत्ययः, अन्प्रत्ययश्चेत्यर्थः । ननुसमर्थाना॑मित्यतो वाग्रहणानुवृत्त्यैव ञाऽनोरभावे । सति पआङ्गे अष्टमो भाव इत्यस्य सिद्धेरिह लुग्विधानं व्यर्थमित्याशङ्क्याह — महाविभाषयेति । पूर्वत्रेति ।षष्ठाऽष्टमाभ्यां ञ चे॑ति सूत्रे इत्यर्थः । एवं षष्ठाष्टमाभ्यां शब्दाभ्यां ञाऽनोरिह नित्यं प्राप्तयोः कदाचिल्लुग्विधिरर्थवानित्यर्थः ।

Padamanjari

Up

मानं व्रीहिपरिमितं सुवर्णम्। अष्टमो भाग इति। कस्य पुनरत्र लुक् ? इत्याह - ञस्य लुक्, अनो वेति। अष्ठन्शब्दाद्भागो तयोरेव विहितत्वत्। लुग्वचनं किम्, यावता महाविभाषयैव पक्षे ञानोरभावः सिद्धः ? ज्ञापनार्थं तु, एतज्ज्ञापयति - पूर्वसूत्रे ञानौ नित्याविति ॥