5-3-50 षष्ठाष्टमाभ्यां ञ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः भागे अन् अछन्दसि
षष्ठ-अष्टमाभ्याम् भागे अच्छन्दसि अन् ञः च
'षष्ठ' तथा 'अष्टम' एतौ शब्दौ लौकिकसंस्कृते यदि 'भाग' इत्यस्य विशेषणरूपेण प्रयुज्येते, तर्हि तेभ्यः स्वार्थे 'अन्' तथा 'ञ' प्रत्ययौ भवतः ।
भाग इत्येव, अच्छन्दसीति च। षष्ठाष्टमाभ्यां भागेऽभिधेयेऽच्छन्दसि विषये ञः प्रत्ययो भवति, चकारादन् च। षष्ठो भागः षाष्ठः, षष्ठः। आष्टमः, अष्टमः॥
चादन् । षष्ठो भागः । षाष्ठः । षष्ठः । आष्टमः । अष्टमः ॥
'षष्ठ' तथा 'अष्टम' एतौ द्वौ पूरणप्रत्ययान्तशब्दौ । एतयोः प्रयोगः 'भागः' इत्यस्य विशेषणरूपेण यत्र भवति, तत्र ताभ्याम् स्वार्थे <<प्रागेकादशभ्योऽच्छन्दसि>> 5.3.49 इत्यनेन 'अन्' प्रत्यये प्राप्ते ; वर्तमानसूत्रेण पक्षे 'ञ' प्रत्ययः अपि विधीयते । यथा - षष्ठः भागः = षष्ठ + ञ → षष्ठ + अ [ञकारस्य इत्संज्ञा, लोपः] → षाष्ठ + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → षाष्ठ् + अ [<<यस्येति च>> 6.4.148 इति अकारलोपः] → षाष्ठ एवमेव - अष्टमः भागः आष्टमः । ज्ञातव्यम् -'षाष्ठ' तथा 'आष्टम' एतयोः शब्दयोः प्रयोगः वेदेषु न दृश्यते, अतः अस्मिन् सूत्रे 'अच्छन्दसि' इत्यस्य अनुवृत्तिः स्वीक्रियते ।
<<षष्ठाष्टमाभ्यां ञ च>> - षष्ठाष्टमाभ्यां ञ च । 'पूर्वसूत्रविषये' इति शेषः ।ञे॑ति लुप्तप्रथमाकम् । ञे आदिवृद्दिः । चादनिति । इह न यथासह्ख्यं, व्याख्यानात् ।
यथासंख्यमत्र न भवति, अन्यतरस्मादनः पूर्वेणैव सिद्धत्वात् ॥