कुशाग्राच्छः

5-3-105 कुशाग्रात् छः प्रत्ययः परः च आद्युदात्तः च तद्धिताः इवे

Sampurna sutra

Up

कुशाग्रात् इवे छः

Neelesh Sanskrit Brief

Up

'कुशाग्र' इत्यस्मात् शब्दात् 'इवे' इति सन्दर्भे 'छ' प्रत्ययः भवति ।

Kashika

Up

कुशाग्रशब्दादिवार्थे छः प्रत्ययो भवति। कुशाग्रमिव सूक्ष्मत्वात् कुशाग्रीया बुद्धिः। कुशाग्रीयं शस्त्रम् ॥

Siddhanta Kaumudi

Up

कुशाग्रमिव कुशाग्रीया बुद्धिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'कुशाग्र' (Tip of a grass) शब्दात् 'इव' अस्मिन् सन्दर्भे स्वार्थे छ-प्रत्ययः भवति । यथा - कुशाग्रम् इव चिन्तनम् (A thought process that is as fine / सूक्ष्म as the tip of the grass) = कुशाग्र + छ → कुशाग्र + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति छकारस्य ईय्-आदेशः] → कुशाग्र् + ईय [<<यस्येति च>> 6.4.148 इति अकारलोपः ।] → कुशाग्रीय । कुशाग्रः इव यः सः कुशाग्रीय ।As fine / सूक्ष्म as the tip of the grass) इति अर्थः । यथा - कुशाग्रीयम् शस्त्रम् । कुशाग्रीया बुद्धिः । कुशाग्रीयः प्रश्नः । स्मर्तव्यम् - <<इवे प्रतिकृतौ>> 5.2.96 इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र 'कुशाग्र' शब्दात् 'इव' इति सन्दर्भे छ-प्रत्ययः एव भवति ।

Balamanorama

Up

<<कुशाग्राच्छः>> - कुशाग्राच्छः । इवे इत्येव । कुशाग्रमिवेति । सूक्ष्मत्वेन सादृश्यम् । कुशाग्रवत्सूक्ष्मेत्यर्थः ।

Padamanjari

Up