5-3-104 द्रव्यं च भव्ये प्रत्ययः परः च आद्युदात्तः च तद्धिताः इवे
index: 5.3.104 sutra: द्रव्यं च भव्ये
भव्ये द्रव्यम् (निपात्यते)
index: 5.3.104 sutra: द्रव्यं च भव्ये
'द्रव्यम्' इति शब्दः 'भव्यम्' इत्यस्मिन् अर्थे निपात्यते ।
index: 5.3.104 sutra: द्रव्यं च भव्ये
द्रव्यशब्दो विपात्यते भव्येऽभिधेये। द्रुशब्दादिवार्थे यत्प्रत्ययो निपात्यते। द्रव्यम्, भव्यः, आत्मवानधिप्रेतानामर्थनां पात्रभूत उच्यते। द्रव्योऽयं राजपुत्रः। द्रव्योऽयं माणवकः।
index: 5.3.104 sutra: द्रव्यं च भव्ये
द्वव्यमयं ब्राह्मणः ॥
index: 5.3.104 sutra: द्रव्यं च भव्ये
भव्य (= योग्यम्, उचितम्, appropriate / adequate / full of ) एतस्मिन् अर्थे 'द्रव्य' अयम् शब्दः अनेन सूत्रेण निपात्यते ।
काशिकाकारः अस्य अर्थम् एतादृशम् वदति - 'अभिप्रेतानामर्थानाम् पात्रभूतः' । The one who has appropriate qualities that are required - इति आशयः ।
यथा - द्रव्यः राजपुत्रः = सः राजपुत्रः यः सर्वैः गुणैः सम्पन्नः अस्ति । One who is appropriately called a prince - इति आशयः ।
विशेषः - द्रु (वृक्षः) अस्मात् शब्दात् 'इव' इति सन्दर्भे यत्-प्रत्ययं कृत्वा 'द्रव्य' शब्दः सिद्ध्यतीति - व्याख्यानैः स्पष्टीभवति । 'सकल-गुणानाम् वृक्षः इव ' इति अत्र आशयः अस्ति । यथा - कश्चन राजपुत्रः यदि राजकर्मणि आवश्यकानाम् गुणानाम् वृक्षः इव अस्ति, तर्हि तस्य निर्देशः 'द्रव्यः राजपुत्रः' इत्यनेन क्रियते ।
index: 5.3.104 sutra: द्रव्यं च भव्ये
द्रव्यं च भव्ये - द्रव्यं च भव्ये । द्रुशब्दादिवार्थवृत्तेर्यप्रत्ययो निपात्यते भव्ये उपमेये गम्ये । भव्य आत्मवान् ।अभिप्रेतानामर्थानां पात्रभूतः॑ इति वृत्तिः । द्रव्यमयमिति । द्रुः=वृक्षः, स यथा पुष्पफलादिभागेवमभिमतफलपात्रभूत इत्यर्थः । यद्वा द्रुः=कल्पवृक्षो ।ञत्र विवक्षितः, स इव अभिमतार्थभागित्यर्थः । यप्रत्यये ओर्गुणः । अवादेशः ।