अंशं हारी

5-2-69 अंशं हारी प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा कन्

Sampurna sutra

Up

index: 5.2.69 sutra: अंशं हारी


'अंशं हारी' (इति) कन्

Neelesh Sanskrit Brief

Up

index: 5.2.69 sutra: अंशं हारी


द्वितीयासमर्थात् 'अंश' (= भागः) शब्दात् 'हारी' (हरणं करोति) अस्मिन् अर्थे 'कन्' प्रत्ययः भवति ।

Kashika

Up

index: 5.2.69 sutra: अंशं हारी


अंशशब्दान् निर्देशादेव द्वितियासमर्थाद् हारी इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति। अंशं हारी अंशको दायादः। अंशकः पुत्रः। हारी इति आवश्यके णिनिः। तत्र षष्ठीप्रतिषेधात् कर्मणि द्वितीया एव भवति।

Siddhanta Kaumudi

Up

index: 5.2.69 sutra: अंशं हारी


हारीत्यावश्यके णिनिः । अत एव तद्योगे षष्ठी न । अंशको दायादः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.69 sutra: अंशं हारी


'अंश' इत्युक्ते भागः (portion / part) । यः कोऽपि अंशस्य हरणं करोति (Takes away a part of something) तस्य निर्देशार्थम् द्वितीयासमर्थात् 'अंश' शब्दात् कन्-प्रत्ययः भवति । अंशं हारी सः अंशकः दायादः (बान्धवः) । पूर्वजैः प्राप्तात् धनात् अंशं हरति सः - इत्याशयः । A relative who (probably legally) takes away a part of estate obtained from forefathers - इति आशयः ।

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे प्रयुक्तः 'हारी' शब्दः 'हारिन्' इत्यस्य प्रथमैकवचनमस्ति । 'हरणम् करोति' अस्मिन् अर्थे 'हृ' धातोः आवश्यकाधमर्ण्ययोर्णिनिः 3.3.170 इत्यनेन 'णिनि' प्रत्ययं कृत्वा अयं शब्दः सिद्ध्यति । 'अंशं हारी' इत्यत्र अकेनोर्भविष्यदाधमर्ण्ययोः 2.3.70 इत्यनेन षष्ठ्याः निषेधः भवति, अतः कर्मणि द्वितीया 2.3.2 इत्यनेन द्वितीया विधीयते ।

  2. यद्यपि 'हारी' इति 'हृ' धातोः रूपमस्ति, तथाप्यत्र 'चौरकर्म' इति अर्थः न विद्यते । यः मनुष्यः पूर्वजैः प्राप्तस्य धनस्य अंशः नियमरूपेण (legally) गृह्णाति, तस्य निर्देशार्थमपि अस्य सूत्रस्य प्रयोगः भवति ।

Balamanorama

Up

index: 5.2.69 sutra: अंशं हारी


अंशं हारी - अंशं हारी । द्वितीयान्तादंशशब्दाद्धरीत्यर्थे कन्स्यादित्यर्थः । ननु कृद्योगषष्ठीप्रसङ्गादंशमिति कथं द्वितीयेत्यत आह — आवश्यके णिनिरिति ।आवश्यकाधमण्र्ययो॑रित्यनेने॑ति शेषः । षष्ठी नेति ।अकनो॑रिति तन्निषेधादिति भावः ।

Padamanjari

Up

index: 5.2.69 sutra: अंशं हारी


तत्र षष्ठीप्रतिषेधादिति। ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इत्यनेन। ननु तत्र भविष्यदधिकारविहितस्याकस्य ग्रहणम् ? सत्यम्; इनस्त्वविशेषण ग्रहणम्, अस्मादेव द्वितीयानिर्द्देशात् ॥