तन्त्रादचिरापहृते

5-2-70 तन्त्रात् अचिरापहृते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा कन्

Sampurna sutra

Up

index: 5.2.70 sutra: तन्त्रादचिरापहृते


'अचिर-अपहृते' (इति) तन्त्रात् कन्

Neelesh Sanskrit Brief

Up

index: 5.2.70 sutra: तन्त्रादचिरापहृते


'अचिरापहृते' (इदानीम् एव दूरीकृतम्) अस्मिन् अर्थे पञ्चमीसमर्थात् 'तन्त्र' शब्दात् कन्-प्रत्ययः भवति ।

Kashika

Up

index: 5.2.70 sutra: तन्त्रादचिरापहृते


तन्त्रशब्दान् निर्देशादेव पञ्चमीसमर्थातचिरापहृते इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति। अचिरापहृतः स्तोककालापहृतः इत्यर्थः। तन्त्रादचिरापहृतः तन्त्रकः पटः। तन्त्रकः प्रावारः। प्रत्यग्रो नव उच्यते।

Siddhanta Kaumudi

Up

index: 5.2.70 sutra: तन्त्रादचिरापहृते


तन्त्रकः । पटः । प्रत्यग्र इत्यर्थः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.70 sutra: तन्त्रादचिरापहृते


प्रारम्भे सूत्रे प्रयुक्तयोः शब्दयोः अर्थम् पश्यामः -

  1. 'तन्त्र' = 'वस्त्रनिर्माणस्य यन्त्रम्' (A textile machine for weaving yarn into a textile)

  2. 'अचिरापहृतम्' = अचिरात् अपहृतम् इति अचिरापहृतम् । इदानीमेव निष्कासितम् / दूरीकृतम् - इत्याशयः ।

अतः अस्य सूत्रस्य अर्थः अयम् - यत् वस्त्रम् तन्त्रात् इदानीमेव निष्कासितम् / दूरीकृतमस्ति (इत्युक्ते, इदानीमेव यस्य वस्त्रस्य निर्माणम् कृतमस्ति) तस्य निर्देशार्थम् 'तन्त्र' शब्दात् कन्-प्रत्ययः भवति । तन्त्रात् अचिरापहृतम् तन्त्रकम् वस्त्रम् ।A piece of cloth that is newly constructed इत्याशयः ।तथैव - तन्त्रकः पटः । तन्त्रका शाटी ।

Balamanorama

Up

index: 5.2.70 sutra: तन्त्रादचिरापहृते


तन्त्रादचिरापहृते - तन्त्रादचिरापह्मते । तन्त्रशब्दात्पञ्चम्यन्तादचिरापह्मतेऽर्थे कनित्यर्थः । तन्त्रं — तन्तुवायशलाका । अचिरेण कालेन अपह्मतः — अचिरापह्मतः ।कालाः परिमाणिने॑ति समासः । प्रत्यग्र इति । नूतन इत्यर्थः ।

Padamanjari

Up

index: 5.2.70 sutra: तन्त्रादचिरापहृते


तन्यन्ते तन्तवोऽस्मिन्नति तन्त्रमुतन्तुवायशलाका, तन्त्रातेर्वा एरचि णिलोपः। अचिरापहृत इति। अचिरः कालोऽपहृतस्येति'कालाः परिमाणिना' इति समासः। पञ्चमीसमर्थादिति। अपहृतयोगे ठपादाने, पञ्चमीऽ ॥