2-3-70 अकेनोः भविष्यदाधमर्ण्ययोः अनभिहिते षष्ठी शेषे न
अकस्य भविष्यति काले विहितस्य, इनस्तु भविष्यति चाधमर्ण्ये च विहितस्य प्रयोगे षष्ठी विभक्तिर्न भवति। कटं कारको व्रजति। ओदनं भोजको व्रजति। इनः खल्वपि — ग्रामं गमी। ग्रामं गामी। आधमर्ण्ये — शतं दायी। सहस्रं दायी। भविष्यदाधमर्ण्ययोरिति किम्? यवानां लावकः। सक्तूनां पायकः। अवश्यंकारी कटस्य। इह कस्माद् न भवति — वर्षशतस्य पूरकः, पुत्रपौत्राणां दर्शक इति? भविष्यदधिकारे विहितस्याकस्येदं ग्रहणम्॥
भविष्यत्यकस्य भविष्यदाधमर्ण्यार्थेनश्च योगे षष्ठी न स्यात् । सतः पावकोऽवतरति । व्रजं गामी । शतं दायी ॥
अकेनोर्भविष्यदाधमर्ण्ययोः॥ अकस्य भविष्यति काले इनस्तु आधमर्ण्ये चेति। संख्यातानुदेशस्तु व्याख्यानान्न भवतीति भादः। ग्रामं गमीति।'भविष्यति गम्यादयः' ननुच नात्र षष्ठयाः प्रसंगः, कथम्? गत्यर्थकर्मणीत्यत्रोक्तम् -'द्वितीयाग्रहरगं किम्? न चुतर्थ्येव विकल्प्येत, अपवादविषये' पि यथा स्याद्ग्रामस्य गन्ताऽ इति, सत्यम्; श्रौते तावत् प्रतिषेधे लभ्यमाने किं द्वितीयाग्रहणसामर्थ्याश्रयणेनेति मन्यते॥