5-2-50 थट् च छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा सङ्ख्यायाः तस्य पूरणे डट् नान्तात्
index: 5.2.50 sutra: थट् चच्छन्दसि
'तस्य पूरणे' (इति) असङ्ख्यादेः नान्तात् सङ्ख्यायाः डटः छन्दसि मट् थट् च
index: 5.2.50 sutra: थट् चच्छन्दसि
यः नकारान्तसङ्ख्यावाची शब्दः सङ्ख्यादिः नास्ति, तस्मात् 'पूरणः' इत्यस्मिन् अर्थे विहितस्य 'डट्' प्रत्ययस्य वेदेषु 'थट्' उत 'मट्' आगमः कृतः दृश्यते ।
index: 5.2.50 sutra: थट् चच्छन्दसि
नान्तादसङ्ख्यादेः परस्य डटः छन्दसि विषये थडागमो भवति। चकारात् पक्षे मडपि भवति। पर्णमयानि पञ्चथानि भवन्ति। पञ्चथः। सप्तथः। मट् पञ्चममिन्द्रियस्यापाक्रामत्।
index: 5.2.50 sutra: थट् चच्छन्दसि
नान्तादसंख्यादेः परस्य डटस्थट् स्यान्मट् च । पञ्चथम् । पञ्चमम् । छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि - <{SK1889}> । पर्यवस्थाता शत्रुः । अपत्यं परिपन्थिनम् (अ॒प॒त्यं प॑रिपन्थिनम्) । मात्वा परिपरिणौ विदन् (मात्वा॒ परि॒परि॑णौ विदन्) ॥
index: 5.2.50 sutra: थट् चच्छन्दसि
तस्य पूरणे डट् 5.2.48 अनेन सूत्रेण सङ्ख्यावाचिभ्यः शब्देभ्यः 'पूरणः' अस्मिन् अर्थे औत्सर्गिकरूपेण डट्-प्रत्ययः भवति । यदि अत्र विहितः प्रकृतिवाचकः सङ्ख्यावाची शब्दः नकारान्तः अस्ति, तथा च तस्मिन् शब्दे पूर्वपदमन्यः सङ्ख्यावाची शब्दः नास्ति, तर्हि तस्मात् विहितस्य डट्-प्रत्ययस्य वेदेषु 'थट्' आगमः उत 'मट्' आगमः कृतः दृश्यते ।
अस्य सूत्रस्य प्रसक्तिः 'पञ्चन्', 'सप्तन्', 'अष्टन्', 'नवन्' तथा 'दशन्' एतेषां विषये एव भवति, यतः 'एकादशन्' इत्यतः अग्रे विद्यमानानाम् नकारान्तशब्दानाम् पूर्वपदमपि सङ्ख्यावाची शब्दः एव अस्ति ।
मट्-आगमे परे रूपाणि -
पञ्चन् + मट् + डट् → पञ्चम ।
सप्तन् + मट् + डट् → सप्तम ।
अष्टन् + मट् + डट् → अष्टम ।
नवन् + मट् + डट् → नवम ।
दशन् + मट् + डट् → दशम ।
थट्-आगमे परे रूपाणि -
पञ्चन् + थट् + डट् → पञ्चथ ।
सप्तन् + थट् + डट् → सप्तथ ।
अष्टन् + थट् + डट् → अष्टथ ।
नवन् + थट् + डट् → नवथ ।
दशन् + थट् + डट् → दशथ ।
सर्वत्र सङ्ख्यावाचिनः शब्दस्य अन्ते विद्यमानस्य नकारस्य नलोपः प्रातिपदिकान्तस्य 8.2.7 इति लोपः भवति ।
स्मर्तव्यम् -
'थट्' इत्यत्र इत्संज्ञकस्य टकारस्य प्रयोजनम् 'आद्यन्तौ टकितौ 1.1.46 इत्यनेन आद्यवयवविधानम्' - इति अस्ति ।
अस्मिन् सूत्रे 'च' इति उक्तमस्ति, परन्तु तस्य अर्थः 'थट् आगमः मट्-आगमः च कृतः दृश्यते' इति न कर्तव्यः । उभावपि आगमौ एकस्मिन्नेव शब्दे कदापि न भवतः । 'केषुचन स्थलेषु थट्-आगमः कृतः दृश्यते, केषुचन अन्येषु च स्थलेषु मट्-आगमः कृतः दृश्यते' इति अत्र चकारेण स्पष्टीक्रियते ।