तदस्य संजातं तारकादिभ्य इतच्

5-2-36 तत् अस्य सञ्जातं तारकादिभ्यः इतच् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा

Sampurna sutra

Up

'संजातम् तत् अस्य' (इति) तारकादिभ्यः इतच्

Neelesh Sanskrit Brief

Up

तारकादिगणस्य शब्देभ्यः प्रथमासमर्थेभ्यः 'अस्य' अस्मिन् अर्थे 'सञ्जात' इति सन्दर्भे इतच्-प्रत्ययः भवति ।

Kashika

Up

तदिति प्रथमासमर्थेभ्यस्तारकादिभ्यः शब्देभ्योऽस्येति षष्ठ्यर्थ इतच् प्रत्ययो भवति। संजातग्रहणं प्रकृतिविशेषणम्। तारकाः संजाता अस्य नभसस्तारकितं नभः। पुष्पितो वृक्षः॥ तारका। पुष्प। मुकुल। कण्टक। पिपासा। सुख। दुःख। ऋजीष। कुड्मल। सूचक। रोग। विचार। व्याधि। निष्क्र मण। मूत्र। पुरीष। किसलय। कुसुम। प्रचार। तन्द्रा। वेग। पुक्षा। श्रद्धा। उत्कण्ठा। भर। द्रोह। गर्भादप्राणिनि (ग०सू० १२३)। तारकादिराकृतिगणः॥

Siddhanta Kaumudi

Up

तारकाः संजाता अस्य तारकितं नभः । आकृतिगणोऽयम् ॥

Laghu Siddhanta Kaumudi

Up

तारकाः संजाता अस्य तारकितं नभः। पण्डितः। आकृतिगणोऽयम्॥

Neelesh Sanskrit Detailed

Up

तारकादिगणस्य शब्देभ्यः 'अस्य' अस्मिन् अर्थे 'सञ्जाताः' (arisen / grown / appeared / produced) इत्यस्मिन् सन्दर्भे इतच् प्रत्ययः भवति । तारकादिगणः अयम् - तारका। पुष्प। मुकुल। कण्टक। पिपासा। सुख। दुःख। ऋजीष। कुड्मल। सूचक। रोग। विचार। व्याधि। निष्क्रमण। मूत्र। पुरीष। किसलय। कुसुम। प्रचार। तन्द्रा। वेग। पुक्षा। श्रद्धा। उत्कण्ठा। भर। द्रोह। गर्भात् अप्राणिनि (गणसूत्रम्) । आकृतिगणोऽयम् । यथा - तारकाः सञ्जाताः अस्य = तारका + इतच् → तारक् + इत [<<यस्येति च>> 6.4.148 इति आकारलोपः] → तारकित तारकाः सञ्जाताः अस्य तत् तारकितम् नभः । तथैव - 1. पुष्पाणि सञ्जातानि अस्य सः पुष्पितः वृक्षः । 2. रोगः सञ्जातः यस्य सः रोगितः पुरुषः । 3. प्रचारः सञ्जातः यस्य सः प्रचारितः विषयः । 4. वेगः सञ्जातम् यस्य तत् वेगितम् शकटम् । विशेषः - 1. तारकादिगणः आकृतिगणः अस्ति, अतः अनेके अन्ये शब्दाः अपि अस्मिन् गणे भवितुमर्हन्ति । यथा, केचन पण्डिताः एतान् अन्यान् अपि शब्दान् तारकादिगणे स्वीकुर्वन्ति - स्तबक, अङ्गार, वर्णक, बुभुक्षा, निद्रा, कर्णक, फल, उच्चार, पल्लव, अग्र, अङ्गारक, पुलक, कुवलय, शैवल, गर्व, तरङ्ग, कल्लोल, पण्डा, हस्तक, सीमन्त, कर्दम, कज्जल, कलङ्क, कुतूहल, कन्दल, अन्धकार, कारक, अङ्कुर, रोमाञ्च, हर्ष, उत्कर्ष, क्षुध, ज्वर, गर, दोह, शास्त्र, मुकुर, तिलक, चन्द्रक, मुद्रा, राग, मञ्जरी, शृङ्गार, तृष, वृण, गर्ध, गौरव, स्थपुट, कञ्चुक, बकुल, श्वभ्र, वर्म, अराल, मूर्धा, प्रतिबिम्ब, विघ्न, तन्त्र, प्रत्यय, दीक्षा, गर्ज - आदयः । 2. अस्मिन् गणै 'गर्भात् अप्राणिनि' इति गणसूत्रम् पाठ्यते । अस्य अर्थः अयम् - 'गर्भ' शब्दात् 'प्राणिभिन्नेषु' अर्थेषु (इत्युक्ते, embryo एतमर्थम् विहाय ; center / core / fundamental एतेषु अन्येषु अर्थेषु) अनेन सूत्रेण इतच् प्रत्ययः भवति । यथा - गर्भः (core / centre / crux) सञ्जातः अस्य सः गर्भितः अर्थः । 3. अस्मिन् सूत्रे प्रयुक्तः 'सञ्जात' इति शब्दः तद्धितान्तस्य / प्रत्ययस्य विशेषणम् नास्ति, अपितु प्रकृतेः विशेषणमस्ति । यथा, 'तारकाः सञ्जाताः अस्य तत् तारकितम् नभः' इत्यत्र 'सञ्जाताः' (arisen) अयम् शब्दः तारकानाम् विषये प्रयुज्यते, न हि नभसः विषये ।

Balamanorama

Up

<<तदस्य संजातं तारकाऽऽदिभ्य इतच्>> - तदस्य । प्रथमान्तेभ्यस्तारकादिभ्योऽस्य तत्संजातमित्यर्थे इतच् स्यादित्यर्थः । तारकितं नभ इति । संजातनक्षत्रमित्यर्थः । आकृतिगणोऽयमिति । तेनपुष्पितो वृक्षः॒॑फलित॑ इत्यादिसंग्रहः ।

Padamanjari

Up

तारकादिषु बुभुक्षा-पिपासाशब्दौ पठ।लेते, तयोः किमर्थःक पाठः, यावता सन्नन्ताभ्यां निष्ठायामिटि च कृते बुभुक्षितः, पिपासितो पिपासित इति ? सत्यं कर्मणि सिद्धम् - बुभुक्षित ओदनः, पिपासितमुदकमिति; कर्तरि तु न प्राप्नोति - बुभुक्षितो देवदतः, पिपासितो देवदत इति। अनेन तु यस्य बुभुक्षापिपासे सञ्जाते तत्र प्रत्यय उत्पद्यते। पुष्पादीनां तर्हि किमर्थः पाठः,'पुष्प विकसने' ,'मूत्र प्रस्रवमे,' 'व्रण गात्रविचूर्णने' - एब्योऽकर्मकत्वात्कर्तरि क्ते - पुष्पितः, मूत्रित इत्यादि सिद्धम् ? सत्यम् भूते सिद्धम्; वर्तमाने तु न सिद्धयति, अतो कवर्तमानार्थस्तेषां पाठ। कथं पुनरनेन वर्तमाने भवति, याताऽत्रापि'सञ्जात' इति भूते निष्ठा ? एवं तर्हि गणे पुष्पादीनां पाठसामर्थ्यात्सञ्जातमित्यत्र भूतकालो न विवक्ष्यते। गर्भादप्राणिनीति। गर्भशब्दादप्राणिन्यभिधेये इतञ्भवति - गर्भिताः शालयः, प्राणिनि तु गर्भिणी गौः ॥