कर्मणि घटोऽठच्

5-2-35 कर्मणि घटः अठच् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा

Sampurna sutra

Up

कर्मणि 'घटः' (इति) अठच्

Neelesh Sanskrit Brief

Up

सप्तमीसमर्थात् 'कर्मन्' शब्दात् 'घटः (= निमग्नः / व्याप्तः)' अस्मिन् अर्थे अठच्-प्रत्ययः भवति ।

Kashika

Up

निर्देशादेव समर्थविभक्तिः। कर्मशब्दात् सप्तमीसमर्थाद् घट इत्येतस्मिन्नर्थेऽठच् प्रत्ययो भवति। घटत इति घटः। कर्मणि घटते कर्मठः पुरुषः॥

Siddhanta Kaumudi

Up

घटत इति घटः । पचाद्यच् । कर्मणि घटते कर्मठः पुरुषः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अस्मिन् सूत्रे प्रयुक्तः 'घट' शब्दः 'घट्' अस्मात् धातोः अच्-प्रत्ययं कृत्वा सिद्ध्यति । घटते (= चेष्टते / प्रयत्नं करोति / व्याप्तः भवति / निमग्नः भवति (involved / occupied इत्याशयः)) सः घटः । अस्मिन् अर्थे 'कर्मन्'शब्दात् सप्तमीसमर्थात् 'अठच्' प्रत्ययः विधीयते । यथा - कर्मणि घटः = कर्मन् + अठच् → कर्म् + अठ [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → कर्मठ कर्मणि घटः सः कर्मठः । यः सदा कार्ये निमग्नः वर्तते, सः पुरुषः 'कर्मठः' नाम्ना ज्ञायते । विशेषः - अत्र आचार्यः 'अठच्' इति प्रत्ययम् पाठयति; यतः 'ठच्' इति प्रत्ययः उच्यते चेत् ठकारस्य <<ठस्येकः>> 7.3.50 इत्यनेन 'इक' आदेशः स्यात्, यः न इष्यते ।

Balamanorama

Up

<<कर्मणि घटोऽठच्>> - कर्मणि घटोऽठच् । सप्तम्यन्तात्कर्मन्शब्दाद्धट इत्यर्थे अठच्स्यादित्यर्थः । घटशब्दस्य कलशषपर्यायत्वभ्रमं वारयति — कर्मणि घटत इति । व्याप्रियत इत्यर्थः । तथाचाऽत्र घटशब्दो यौगिको घटमाने वर्तत इति भावः । कर्मठ इति । अठचि 'नस्तद्धिते' इति टिलोपः । अठचि ठस्य अङ्गात्परत्वाऽभावादिकादेशाऽभाव इति भावः ।

Padamanjari

Up

'कर्मणि' इत्यनेन कर्मणीति स्वलरूपग्रहणं दर्शयति। अथ पारिभाषिकस्य कर्मणो ग्रहणं करमान्न भवति ? असम्भवात्। असम्भवतु घटतेरकर्मकत्वात्। अठच्प्रत्येयेऽकारोच्चारणं ठस्येकादेशनिवृत्यर्थम् ॥