5-2-34 उपाधिभ्यां त्यकन् आसन्नारूढयोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा सञ्ज्ञायां
index: 5.2.34 sutra: उपाधिभ्यां त्यकन्नासन्नारूढयोः
उप-अधिभ्यामासन्न-आरूढयोः संज्ञायाम् त्यकन्
index: 5.2.34 sutra: उपाधिभ्यां त्यकन्नासन्नारूढयोः
'आसन्न' अस्मिन् अर्थे 'उप' उपसर्गात् तथा 'आरूढ' अस्मिन् अर्थे 'अधि' उपसर्गात् संज्ञायाः विषये स्वार्थे त्यकन्-प्रत्ययः भवति ।
index: 5.2.34 sutra: उपाधिभ्यां त्यकन्नासन्नारूढयोः
उप अधि इत्येताभ्यां यथासङ्ख्यमासन्नारूढयोर्वर्तमानाभ्ह्रां स्वार्थे त्यकन् प्रत्ययो भवति। संज्ञाधिकाराच् च नियतविषयमासन्नारूढं गम्यते। पर्वतस्य आसन्नमुपत्यका। तस्य एस्व आरूढमधित्यका। प्रत्ययस्थात् कात्पूर्वस्य इति इत्वमत्र न भवति, संज्ञाधिकारादेव।
index: 5.2.34 sutra: उपाधिभ्यां त्यकन्नासन्नारूढयोः
संज्ञायामित्यनुवर्तते । पर्वतस्यासन्नं स्थलमुपत्यका । आरूढं स्थलमधित्यका ॥
index: 5.2.34 sutra: उपाधिभ्यां त्यकन्नासन्नारूढयोः
'उप' तथा 'अधि' एताभ्यामुपसर्गाभ्यामनेन सूत्रेण स्वार्थे त्यकन्-प्रत्ययः उच्यते । क्रमेण पश्यामः -
'आसन्न' (समीप / close / next to) अस्मिन् अर्थे प्रयुज्यमानः यः 'उप' उपसर्गः, तस्मात् स्वार्थे 'त्यकन्' प्रत्ययः भवति ।उप + त्यकन् = उपत्यक ।
'आरूढ' (elevated / raised up) अस्मिन् अर्थे प्रयुज्यमानः यः 'अधि' उपसर्गः, तस्मात् स्वार्थे 'त्यकन्' प्रत्ययः भवति । अधि + त्यकन् = अधित्यक ।
विशेषः - अस्मिन् सूत्रे 'संज्ञायाम्' इत्यपि अनुवर्तते, अतः अनेन सूत्रेण निर्मितयोः शब्दयोः प्रयोगः केवलम् विशिष्ट-सन्दर्भेषु एव भवति । यथा - पर्वतस्य आसन्ना उपत्यका भूमिः ; पर्वतस्य आरूढा अधित्यका भूमिः । The land next to the mountain ('lowland') is called उपत्यका; whereas the land on the top of the mountain ('highland') is called अधित्यका । अत्र 'उपत्यक + टाप्' तथा 'अधित्यक + टाप्' इत्यत्र प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः 7.3.44 इत्यनेन ककारात् पूर्वस्य अकारस्य इकारादेशः न भवति यतः अत्र 'संज्ञायाम्' इति उच्यते । संज्ञायाः विषये वेदेषु च प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः 7.3.44 इत्यस्य प्रसक्तिः नास्ति ।
index: 5.2.34 sutra: उपाधिभ्यां त्यकन्नासन्नारूढयोः
नियतविषयमिति। पर्वतविषयम्। आस तेन वृक्षस्यासन्नम्, प्लक्षस्यारूढमित्यत्र न भवतीतति भावः। अथोपत्यका, अधित्यकेत्यत्र'प्रत्ययस्थात् कात् पूर्वस्य' इत्यनेनेत्वं करमान्न भवति ? इत्यत आह - प्रत्ययस्थात् कादिति। यद्यत्रेत्वं स्यात् संज्ञारूपं न सिध्येत्; नोपत्यिकाधित्यिकेत्येवंरूपा संज्ञा। तस्मात् संज्ञाधिकारादित्वं न भवति ॥