5-2-31 नते नासिकायाः सञ्ज्ञायां टीटञ्नाटज्भ्रटचः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा
नासिकायाः नते संज्ञायामवात् टीटच्-नाटच्-भ्रटचः
'नता नासिका' अस्मिन् सन्दर्भे संज्ञायाः विषये 'अव' उपसर्गात् 'टीटच्', 'नाटच्', तथा 'भ्रटच्' एते प्रत्ययाः भवन्ति ।
अवादित्येव। नमनं नतम्। नासिकायाः संबन्धिनि नतेऽभिधेये टीटच् नाटच् भ्रटच् इत्येते प्रत्यया भवन्ति संज्ञायां विषये। नासिकाया नतम् अवटीटम्। अवनाटम्। अवभ्रटम्। तद्योगाद् नासिकापि, पुरुषोऽपि तथोच्यते, अवटीटः। अवनाटः। अवभ्रट इति॥
अवादित्येव । नतं नमनम् । नासिकाया नतं अवटीटम् । अवनीटम् । अवभ्रटम् । तद्योगान्नसिका अवटीटा । पुरुषोऽप्यवटीटः ॥
नासिकायाः विशिष्टां स्थितिम् निर्देशयितुमस्मिन् सूत्रे प्रत्ययविधानम् क्रियते । यदि नासिका नता / अधोगता अस्ति (nose pointing / bent downwards) तर्हि तस्याः नतस्य (pointedness) निर्देशार्थम् 'अव' उपसर्गात् टीटच्', 'नाटच्', तथा 'भ्रटच्' एते प्रत्ययाः भवन्ति । यथा - (अ) अव + टीटच् = अवटीट । (आ) अव + नाटच् → अवनाट । (इ) अव + भ्रटच् → अवभ्रट । नासिकायाः नतम् (pointedness of the nose) अवटीटम्, अवनाटम्, अवभ्रटम् । एते त्रयः शब्दाः अस्य नतस्य संज्ञारूपेण प्रयुज्यन्ते । स्मर्तव्यम् - 1. या नासिका नता अस्ति, सापि 'अवटीटा' / 'अवनाटा' / 'अवभ्रटा' अनेन शब्देन सम्बुध्यते ।तथा च, यस्य पुरुषस्य नासिका नता अस्ति, सः पुरुषः अपि 'अवटीटः' / 'अवनाटः' / 'अवभ्रटः' अनेन शब्देन सम्बुध्यते । एतेषाम् सर्वेषाम् व्युत्पत्तिः अनेनैव सूत्रेण लक्षणार्थम् स्वीकृत्य दीयते । 2. 'टीटच्' अस्मिन् प्रत्यये आदिस्थस्य टकारस्य <<चुटू>> 1.3.7 इत्यनेन न भवति, यतः अत्र टकारस्य इत्संज्ञायाः किमपि प्रयोजनम् नास्ति । एवं च, <<चुटू>> 1.3.7 इत्यस्य अनित्यत्वं स्वीकृत्य अप्यत्र इत्संज्ञायाः निषेधः उच्यते । 3. अस्मिन् सूत्रे प्रयुक्तः 'टीटञ्नाटज्भ्रटजः' अयम् प्रयोगः चिन्तनीयः अस्ति । 'टीटच् + नाटच्' इत्यत्र वस्तुतः <<स्तोः श्चुना श्चुः>> 8.4.40 इत्यनेन नकारस्य श्चुत्वे ञकारे कृते 'टीटच्-ञाटच्' इति प्रयोगः भवेत् । परन्तु अत्र 'टीटञ्नाटच्' इत्यत्र श्चुत्वम् नैव कृतम् दृश्यते ; अपितु चकारस्य ञकारादेशः कृतः दृश्यते ; यः केनाऽपि सूत्रेण न विधीयते (<<यरोऽनुनासिकेऽनुनासिको वा>> 8.4.45 इत्यस्य अत्र प्रसक्तिः नास्ति, यतः अत्र 'टीटच्' इत्यस्य पदसंज्ञा न भवति । यद्यप्यत्र अस्य प्रसक्तिः गृह्णीयात्, तथापि श्चुत्वस्य कृते अस्य असिद्धत्त्वमेव स्यात्) । अस्य स्पष्टीकरणम् व्याख्यानेषु न दत्तमस्ति । अतः 'छन्दोवत् सूत्राणि भवन्ति' इत्येव अस्य समाधानम् ।
<<नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्राटचः>> - नते नासिकायाः । अवादित्येवेति । अवशब्दान्नासिकाया अवनतेऽर्थे टीटच्, नाटच्, भ्रटच् एते प्रत्ययाः स्युरित्यर्थः । 'णमु प्रह्वत्वे' इति धातोर्भावे क्तप्रत्यये नतशब्द इत्यभिप्रेत्याह-नतं नमनमिति । प्रह्वत्वमित्यर्थः । ननु यदि नासिकाया नमनमवटीटं तर्हि अवटीटा नासिकेति कथमित्यत आह — तद्योगादिति । नमनयोगात्तत्र लाक्षणिकमिति भावः । पुरुषोऽप्यवटीट इति । तादृशनासिकायोगादिति भावः ।
नमनं नतमिति।'नपुंसके भावे क्तः' नीचैस्त्वमित्यर्थः। नासिकायाः सम्बन्धैनीति। सम्बन्धश्च नमने कर्तृत्वेन, सूत्रे तु'नपुंसके भाव उपसंख्यानाम्' इति कर्तरि षष्ठी। यद्वा - शेषविज्ञानात्सिद्धमिति शेषलक्षणैव। अवटीटादिषु नासिकासाधने नमने वर्तमानादुपसर्गात्स्वार्थे प्रत्ययः। कथं तर्हि नासिका पुरुषश्च तथोच्यते ? इत्याह - तद्योगादिति। टीटञष्टकारस्येत्संज्ञभावः'चुटूअ' इत्यत्रैव व्यख्यातः ॥