5-2-30 अवात् कुटारच् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा कटच्
index: 5.2.30 sutra: अवात् कुटारच्च
अवात् कुटारच् कटच् च
index: 5.2.30 sutra: अवात् कुटारच्च
'अव' उपसर्गात् स्वार्थे कुटारच् तथा कटच् प्रत्ययौ भवतः ।
index: 5.2.30 sutra: अवात् कुटारच्च
अवशब्दात् कुटारच् प्रत्ययो भवति। चकारात् कटच्। अवकुटारम्, अबकटम्।
index: 5.2.30 sutra: अवात् कुटारच्च
चात्कटच् । अवाचीनोऽवकुटारः । अवकटः ॥
index: 5.2.30 sutra: अवात् कुटारच्च
'अवाचीनः' (directed downwards) अस्मिन् अर्थे प्रयुक्तात् 'अव' अस्मात् उपसर्गात् स्वार्थे कुटारच् तथा कटच् प्रत्ययौ भवतः -
(अ) अव + कुटारच् = अवकुटार ।
(आ) अव + कटच् = अवकट ।
द्वयोः अपि शब्दयोः अर्थः 'अवाचीनः' (directed downwards) इत्येव अस्तीति व्याख्यानेषु स्पष्टीक्रियते ।
index: 5.2.30 sutra: अवात् कुटारच्च
अवात् कुटारच्च - अवात्कुटारच्च । क्रियाविशिष्टसाधानवाचकादवात्स्वार्थे कुटरच स्यादित्यर्थः । अवाचीन इति । अवाचीने विद्यमानादवात्कुटरचि अवकुटार इत्यर्थः ।
index: 5.2.30 sutra: अवात् कुटारच्च
अवकुटारम्, अवकटमिति। अवाचीनम्, अप्रसिद्धमित्यर्थः ॥