5-2-131 सुखादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् इनिः
index: 5.2.131 sutra: सुखादिभ्यश्च
'तत् अस्य, अस्मिन् अस्तीति ' (इति) सुखादिभ्यः इनि
index: 5.2.131 sutra: सुखादिभ्यश्च
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सुखादिगणस्य प्रथमासमर्थेभ्यः शब्देभ्यः 'इनि' प्रत्ययः भवति ।
index: 5.2.131 sutra: सुखादिभ्यश्च
सुख इत्येवमादिभ्यः प्रातिपदिकेभ्यः इनिः प्रत्ययो नियम्यते मत्वर्थे। सुही। दुःखी। मालाक्षेपे इति पठ्यते, व्रीह्यादिषु च मालाशब्दोऽस्ति, तदिह क्षेपे मतुब्बाधनार्थं वचनम्। सुख। दुःख। तृप्र। कृच्छ्र। आम्र। अलीक। करुणा। कृपण। सोढ। प्रमीप। शील। हल। माल क्ष्पे। प्रणय।
index: 5.2.131 sutra: सुखादिभ्यश्च
इनिर्मत्वर्थे । सुखी । दुःखी ॥ (गणसूत्रम् -) मालाक्षेपे ॥ माली ॥
index: 5.2.131 sutra: सुखादिभ्यश्च
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण सुखादिगणस्य शब्देभ्यः वर्तमानसूत्रेण 'इनि' इति प्रत्ययः विधीयते । अस्मिन् गणे ये अदन्तशब्दाः सन्ति तेभ्यः 'अस्य अस्ति' अस्मिन् अर्थे अत इनिठनौ 5.2.115 इत्यनेन 'मतुँप्', 'इनि' तथा 'ठन्' प्रत्ययेषु प्राप्तेषु वर्तमानसूत्रेण 'इनि' प्रत्ययस्य पुनर्विधानम् कृत्वा 'मतुँप्' तथा 'ठन्' प्रत्यययोः बाधनम् क्रियते ।
सुखादिगणः अयम् - सुख, दुःख, तृप्र, कृच्छ्र, आम्र, अलीक, करुणा, कृपण, सोढ, प्रमीप, शील, हल, माला क्षेपे (गणसूत्रम्) , प्रणय ।
उदाहरणानि -
सुखम् विद्यते यस्मिन् सः सुखी ।
दुःखम् विद्यते यस्मिन् सः दुःखी ।
तृप्रम् ( (= दुःखम्) विद्यते यस्मिन् सः तृप्री ।
करुणा विद्यते यस्मिन् सः करूणी ।
प्रणयः विद्यते यस्याम् सा प्रणयिनी ।
अत्र 'माला क्षेपे' इति गणसूत्रम् पाठ्यते । अस्य अर्थः अयम् - 'माला' शब्दात् 'क्षेप' (= निन्दा / insult) अस्मिन् अर्थे वर्तमानसूत्रेण इनि-प्रत्ययः भवति । माला अस्मिन् अस्ति सः माली निन्द्यः । one who has worn a garland for bad reasons - इत्याशयः ।
विशेषः - 'माला' इति शब्दः व्रीह्यादिभ्यश्च 5.2.116 इत्यत्र पाठिते शिखादिगणे विद्यते अतः अस्मात् शब्दात् केवलम् 'इनि' तथा 'मतुँप्' प्रत्ययौ एव भवतः । अस्यां स्थितौ 'क्षेप (= निन्दा)' अस्मिन् अर्थे वर्तमानसूत्रेण मतुँप्-प्रत्ययस्यापि निषेधः भवति, केवलम् इनि-प्रत्ययः एव विधीयते ।
index: 5.2.131 sutra: सुखादिभ्यश्च
सुखादिभ्यश्च - सुखादिभ्यश्च । इनिर्मत्वर्थे इति । इनिरेव, नतु ठनित्यर्थः । माला क्षेपे इति । शुखादिगणसूत्रमिदम् ।
index: 5.2.131 sutra: सुखादिभ्यश्च
इनिः प्रत्ययो नियम्यते इति। पूर्वसूत्रे इनिरेव भवतीति नियमस्वरूपं दर्शितम्, इहापि तथैव नियमः। नन्वेवं यत एवकारस्ततोऽन्यत्रावधारणमिति सुखादय एव नियता भवन्ति, तत्किमुच्यते -'प्रत्ययो नियम्यते' इति? अन्यनिवृत्तिविशिष्ट्ंअ व्यस्थापनगत्र नियम इत्यदोषः। मतुब्बाधनार्थं वचनमिति। न तु ठन्बाधनार्थम्;'शिखादिभ्य इनिर्वाच्यः' इत्यनेनैव ठनो निवर्तितत्वादिति भावः ॥