वयसि पूरणात्

5-2-130 वयसि पूरणात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् इनिः

Sampurna sutra

Up

'तत् अस्य, अस्मिन् अस्तीति' (इति) पूरणात् वयसि इनि

Neelesh Sanskrit Brief

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थेभ्यः पूरणप्रत्ययान्तशब्देभ्यः वयसः निर्देशं कर्तुम् 'इनि' प्रत्ययः भवति ।

Kashika

Up

इनिरनुवर्तते। पूरणप्रत्ययान्तात् प्रातिपदिकादिनिः प्रत्ययो भवति मत्वर्थे वयसि द्योत्ये। पञ्चमोऽस्यास्ति मासः संवत्सरो वा पञ्चमी उष्ट्रः। नवमी। दशमी। सिद्धे सति नियमार्थं वचनम् — इनिरेव भवति, ठन् न भवतीति। वयसीति किम्? पञ्चमवान् ग्रामरागः॥

Siddhanta Kaumudi

Up

पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयसि द्योत्ये । मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चमी उष्ट्रः । ठन्बाधनार्थमिदम् । वयसि किम् । पञ्चमवान्ग्रामः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण पूरणप्रत्ययान्तशब्देभ्यः वयसि अभिधेये (to indicate an age) वर्तमानसूत्रेण 'इनि' प्रत्ययः विधीयते । यथा - 1. पञ्चमः मासः अस्य अस्ति सः पञ्चमी शिशुः । A five-month old baby. 2. अष्टमम् वर्षमस्य अस्ति सः अष्टमी कुमारः । An eight year old boy. विशेषः - 1. पूरणप्रत्ययान्तशब्दाः सर्वे अदन्ताः सन्ति । एतेभ्यः 'अस्य अस्ति' अस्मिन् अर्थे <<अत इनिठनौ>> 5.2.115 इत्यनेन 'इनि' तथा 'ठन्' द्वयोरपि प्रत्यययोः प्राप्तयोः वर्तमानसूत्रेण पुनः 'इनि' प्रत्ययविधानं क्रियते, येन 'ठन्' प्रत्ययस्य निषेधः भवति । 2. यत्र वयसः निर्देशः नास्ति, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - पञ्चमः स्वरः विद्यते यस्मिन् सः पञ्चमवान् रागः ।

Balamanorama

Up

<<वयसि पूरणात्>> - वयसि पूरणात् ।अत इनिठना॑वित्येव इनिसिद्धेः किमर्थमिदिमित्यत आह — ठनादिबाधनार्थमिति ।

Padamanjari

Up

मासः संवत्सरो वेति। प्रकरणादिवशात्पञ्चमादिशब्दस्य काले वृत्तिः, ततश्च'वयसि द्योत्ये' इति विशेषणं तत्रोपपन्नमिति भावः ॥