5-2-132 धर्मशीलवर्णान्तात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् इनिः
index: 5.2.132 sutra: धर्मशीलवर्णान्ताच्च
'तत् अस्य, अस्मिन् अस्तीति' (इति) धर्म-शील-वर्णान्तात् इनिः
index: 5.2.132 sutra: धर्मशीलवर्णान्ताच्च
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः धर्मान्तशब्देभ्यः शीलान्तशब्देभ्यः तथा वर्णान्तशब्देभ्यः प्रथमासमर्थेभ्यः 'इनि' प्रत्ययः भवति ।
index: 5.2.132 sutra: धर्मशीलवर्णान्ताच्च
अन्तःशब्दः प्रत्येकमभिसम्बध्यते। धर्माद्यन्तात् प्रातिपदिकातिनिः प्रत्ययो नियम्यते। ब्रह्मणानां धर्मो ब्राह्मणधर्मः, सोऽस्य अस्तीति ब्राह्मणधर्मी। ब्राह्मणशीली। ब्राह्मणवर्णी।
index: 5.2.132 sutra: धर्मशीलवर्णान्ताच्च
धर्माद्यन्तादिनिर्मत्वर्थे । ब्राह्मणधर्मी । ब्राह्मणशीली । ब्राह्मणवर्णी ॥
index: 5.2.132 sutra: धर्मशीलवर्णान्ताच्च
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । परन्तु यस्मिन् शब्दे 'धर्म', 'शील' तथा 'वर्ण' (cast) एतेषु कश्चनशब्दः अन्ते विद्यते, तस्मात् शब्दात् मतुँप्-प्रत्ययं बाधित्वा वर्तमानसूत्रेण 'इनि' प्रत्ययः विधीयते ।
यथा -
ब्राह्मणधर्मः अस्य अस्ति सः ब्राह्मणधर्मी ।
क्षत्रियशीलमस्य अस्ति सः क्षत्रियशीली ।
वैश्यवर्णः अस्य अस्ति सः वैश्यवर्णी ।
ज्ञातव्यम् - एतेभ्यः सर्वेभ्यः शब्देभ्यः 'अस्य अस्ति' अस्मिन् अर्थे अत इनिठनौ 5.2.115 इत्यनेन मतुँप्, इनि, तथा ठन् प्रत्ययेषु प्राप्तेषु वर्तमानसूत्रेण पुनः 'इनि' प्रत्ययः विधीयते, येन 'मतुँप्' तथा 'ठन्' प्रत्यययोः निषेधः भवति ।
index: 5.2.132 sutra: धर्मशीलवर्णान्ताच्च
धर्मशीलवर्णान्ताच्च - धर्मशील । धर्माद्यन्तादिति । धर्म, शील, वर्ण — एतदन्तादिनिरेवेत्यर्थः ।
index: 5.2.132 sutra: धर्मशीलवर्णान्ताच्च
ब्राह्मणवर्णिति। ब्राह्मणानां वर्णःउजातिः, तद्वान् ब्राह्मणवर्णी ब्राह्मण एव ॥