5-2-118 एकगोपूर्वात् ठञ् नित्यम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्
'तत् अस्य, अस्मिन् अस्तीति' (इति) एक-गो-पूर्वात् ठञ् नित्यम् ।
यस्मिन् शब्दे पूर्वपदम् 'एक' यथा 'गो' इति विद्यते, तस्मात् शब्दात् प्रथमासमर्थात् 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः ठञ्-प्रत्ययः भवति ।
एकपूर्वात् गोपूर्वात् च प्रातिपदिकाद् नित्यं ठञ् प्रत्ययो भवति मत्वर्थे। एकशतमस्यास्तीति ऐकशतिकः। ऐकसहस्रिकः। गोपूर्वात् च — गौशतिकः। गौसहस्रिकः। अत इत्येव — एकविंशतिरस्यास्तीति न भवति। कथमैकगविकः? समासान्ते कृते भविष्यति। कथं गौशकटिकः? शकटीशब्देन समानार्थः शकटशब्दोऽस्ति, ततो भविष्यति। अवश्यं चात इत्यनुवर्त्यम्,<<द्वन्द्वोपतापगर्ह्यात्०>> ५.२.१२८ इत्येवमाद्यर्थम्। नित्यग्रहणं मतुपो बाधनार्थम्। कथमेकद्रव्यवत्त्वादिति? नैवायं साधुः। एकेन वा द्रव्यवत्त्वादिति समर्थनीयम्॥
एकशतमस्यास्तीति ऐकशतिकः । ऐकसहस्रिकः । गौशतिकः । गौसहस्रिकः ॥
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । परन्तु यस्मिन् शब्दे पूर्वपदम् 'एक' उत 'गो' इति वर्तते, तस्मात् शब्दात् वर्तमानसूत्रेण मतुँप्-प्रत्ययं बाधित्वा 'ठञ्' प्रत्ययः भवति । उदाहरणानि एतानि - 1. एकशतमस्य अस्मिन् वा अस्ति = एकशत + ठञ् → एकशत + इक [<<ठस्येकः>> 7.3.50 इति इक-आदेशः] → ऐकशत + इक [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → ऐकशत् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → ऐकशतिक 2 .एकसहस्रमस्य अस्मिन् वा अस्ति सः ऐकसहस्रिकः । 3. गोशतमस्य अस्मिन् वा अस्ति सः गौशतिकः । 4. गोसहस्रमस्य अस्मिन् वा अस्ति सः गौसहस्रिकः । 5. गोशकटी (bullock-cart) अस्य अस्मिन् वा अस्ति सः गौशकटिकः । विशेषः - 1. भाष्यकारस्य मतेन अस्य सूत्रस्य प्रयोगः केषाञ्चन शब्दानाम् विषये एव भवति, सर्वेषाम् न । यथा - 'एकविंशति' अस्य शब्दस्य विषये अनेन सूत्रेण 'ठञ्' प्रत्ययः न भवति । अतः शिष्टप्रयोगम् दृष्ट्वैव अस्य सूत्रस्य प्रयोगः करणीयः । 2. काशिकाकारः अस्मिन् सूत्रे <<अत इनिठनौ>> 5.2.115 इत्यस्मात् 'अत' इत्यस्य अनुवृत्तिं स्वीकरोति, येन 'एकविंशति' आदयः शब्दाः अत्र प्रत्ययम् प्राप्तुमेव न अर्हन्ति । अस्मिन् पक्षे 'गौशकटिकः' इत्यस्य विग्रहः 'गोशकटः अस्य अस्मिन् वा अस्ति' इति दीयते । परन्तु भाष्यकारस्य मतेन अस्मिन् सूत्रे 'अत' इति न अनुवर्त्तनीयम् । 3. अस्मिन् सूत्रे पाणिनिना निर्दिष्टः 'नित्यम्' इति शब्दः 'मतुँप्' प्रत्ययस्य बाधनार्थमस्ति । इतः पूर्वेषु सूत्रेषु 'अन्यतरस्याम्' तथा 'मतुँप्' द्वयोः अपि अनुवृत्तिः स्वीक्रियते । अस्मिन् सूत्रे इयमनुवृत्तिः मा आगच्छेत्, इति स्पष्टीकर्तुमत्र 'नित्य'शब्दः उच्यते ।
<<एकगोपूर्वाट्ठञ् नित्यम्>> - एकगोपूर्वाठ्ठञ्नित्यम् । एकपूर्वाद्गोपूर्वाच्च नित्यं ठञ्स्यादित्यर्थः । यद्यपि नित्यग्रहणाऽभावेऽपि ठञा इनिठनोर्निर्वृत्तिः सिध्यति, तथापि समुच्चयार्थकाऽन्यतरस्याङ्ग्रहणानुत्त्या मतुप्समुच्चीयेत, तन्निवत्त्यर्थं नित्यग्रहणम् । ऐकशतिक इति । 'पूर्वकाल' इति समासः ।सङ्ख्यायाः संवत्सर॑ इत्युत्तरपदवृद्धिस्तु न, तत्र प्रतिपदोक्ततद्धितार्थसमासस्यैव ग्रहणात् ।
एकशतमस्यास्तीति। एकं च तच्छतं चेति'पूर्वकाले' इत्यादिना कर्मधारयः। षष्ठीतत्पुरुषाद् बहुव्रीहेर्द्वन्द्वाच्च न भवति; अनभिधानात्; इतिकरणानुवृतेश्च। कथमिति। एकगोशब्दस्याप्यनकारान्तत्वात्प्रशनः। समासान्ते कृत इति।'गोरतद्धितलुकि' इति टचि। कथमिति। इवर्णान्त एव शककटिशब्दोऽस्तीति मन्यमानस्य प्रश्नः - अनभिधानादेव एकविंशत्यादिभ्यो न भविष्यति, किम् ठतऽ इत्यस्यानुवृत्या? तत्राह - अवशं चेति। एवमाद्यर्थमिति। एवमादि यत्सूत्रं तदर्शमित्यर्थः। ततः परे तु ये योगाः'वातातीसाराभ्याम्' इत्येवमादयः, तेषु ठतःऽ इत्यस्योपयोगो नास्तीति। नित्यग्रहणमित्यादि। अन्यथान्यतरस्यांग्रहणेन सर्वत्रैवान्न प्रकरणे मतुप्समुच्चयादत्रापि प्रसङ्गः। एकेन वेति। यद्यवश्यं समर्थयितव्यमिति भावः। तत्र'सुप्सुपा' इति समासः। कथमेकदण्कडीति ? ठेकदेशिनैकाधिकरणेऽ इति निर्देशो ज्ञापयति - इनिरपि क्वचिद्भवतीति ॥