दन्तशिखात् संज्ञायाम्

5-2-113 दन्तशिखात् सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् वलच्

Sampurna sutra

Up

index: 5.2.113 sutra: दन्तशिखात् संज्ञायाम्


'तत् अस्य, अस्मिन् अस्तीति' (इति) दन्त-शिखात् संज्ञायाम् वलच्

Neelesh Sanskrit Brief

Up

index: 5.2.113 sutra: दन्तशिखात् संज्ञायाम्


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'दन्त' तथा 'शिखा' एताभ्यां प्रथमासमर्थाभ्याम् शब्दाभ्याम् संज्ञायाम् गम्यमानायाम् 'वलच्' प्रत्ययः भवति ।

Kashika

Up

index: 5.2.113 sutra: दन्तशिखात् संज्ञायाम्


दन्तशिखाशब्दाभ्यां बलच् प्रत्ययो भवति मत्वर्थे संज्ञायां विषये। दन्तावलः सैन्यः। दन्तावलो गजः। शिखावलं नगरम्। शिखावला स्थूणा।

Siddhanta Kaumudi

Up

index: 5.2.113 sutra: दन्तशिखात् संज्ञायाम्


दन्तवलो हस्ती । शिखावलः केकी ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.113 sutra: दन्तशिखात् संज्ञायाम्


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण 'दन्त' तथा 'शिखा' शब्दाभ्याम् संज्ञायाः निर्देशे कर्तव्ये अनेन सूत्रेण वलच्-प्रत्ययः भवति । यथा -

  1. दन्ताः अस्य अस्मिन् वा सन्ति = दन्त + वलच् → दन्तावल । यथा - दन्तावलः गजः । अत्र वले 6.3.118 इति दीर्घादेशः भवति ।

  2. शिखा अस्य अस्मिन् वा अस्ति = शिखा + वलच् → शिखावल । यथा - शिखावलः मयूरः ।

स्मर्तव्यम् - 'शिखा' शब्दात् शिखाया वलच् 4.2.89 इत्यनेन चातुर्थिकप्रकरणे अपि वलच्-प्रत्ययः भवति, परन्तु तत्र देशस्य निर्देशः क्रियते (यथा - शिखा अस्मिन् देशे अस्ति सः शिखावलः देशः) । अत्र निर्दिष्टः 'शिखावल' शब्दः देशभिन्नस्य निर्देशं करोति ।

Balamanorama

Up

index: 5.2.113 sutra: दन्तशिखात् संज्ञायाम्


ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्- मलिनमलीमसाः - ज्योत्स्ना । ज्योतिष इति । ज्योत्स्नावयवाः=ज्योतीषि, तान्यस्यां सन्तीति विग्रहे ज्योतिष्शब्दान्नप्रत्ययः, उपधाभूतस्य इकारस्य लोपश्च निपात्यते । सति च इकारस्य लोपे इणः परत्वाऽभावात्षत्वनिवृत्तौ ज्योत्स्नेति रूपम् ।चन्द्रिका कौमुदी ज्योत्स्ने॑त्यमरः । तमस इति । तमोऽस्यास्तीति विग्रहे तमस्मशब्दात् रक्प्रत्ययाः । उपधाभूतस्य मकारादकारस्य इत्वं च निपात्यत इत्यर्थः ।तमिरुआआ तामसी रात्रि॑रित्यमरः । ननुतमिरुओ॑ति स्त्रीलिङ्गनिसर्देशात्तमिरुआं गृहमिति कथमित्यत आह — स्त्रीत्वमतन्त्रमिति । शृङ्गादिनजिति । 'निपात्यते' इति शेषः । शृङ्गिण इति । शृङ्गमस्यास्तीति विग्रहः । इनचि णत्वम् । ऊर्जसो वलजिति । 'निपात्यते' इति शेषः । ऊर्जसित्यसुन्नन्तं प्रातिपदिकम् । ननुअस्मायामेधे॑ति लिनिना सिद्धेरूर्जस्विन्निति भूदित्येतदर्थं विनो निपातनमित्यर्थः । ऊर्ज इति । ऊर्जशब्दाद्वलचि प्रकृतेरसुगागम इति वृत्तिग्रन्थोऽनुपपन्न इत्यर्थः । कुत इत्यत आह — ऊर्जस्वतीरितिवदिति । ऊर्जस्वतीरित्यत्र बलप्रत्ययाऽभावेन तत्सन्नियोगशिष्टस्य असुगागमस्याऽप्रसक्तेस्तत्र ऊर्जसित्यसुन्नन्तं प्रातिपदिकमवयश्यमभ्युपेयम् । तेनैव ऊर्जस्विन्नूर्जस्वलयोर्विनिवलज्मात्रनिपातनोपपत्तेरित्यर्थः । ईमसच्चेति । मलशब्दान्निपात्यत इति शेषः ।

Padamanjari

Up

index: 5.2.113 sutra: दन्तशिखात् संज्ञायाम्


दन्तावलःउगजः,'दन्ती दन्तावलो हस्ती' इत्यमरसिंहः। शिखावलं नगरमिति। ननु देशे'शिखाया वलच्' इति चातुरर्थिकेनैव सिद्धम्, तच्चावश्यं कर्तव्यम् - निर्वृताद्यर्थम् ? सत्यम्; इहापि सिखाग्रहणमदेशार्थमवश्यं कर्तव्यम्, इहापि यथा स्यात् - शिखावाला स्थूपेति। यद्येवंविधा संज्ञा भवति, तत्र देशे मत्वर्थे परत्वादनेनैव लज्युक्त इति मत्वा शिकावलं नगरमित्युदाहृतम् ॥