6-3-118 वले उत्तरपदे संहितायाम्
वले परतः पूर्वस्य दीर्घो भवति। आसुतीवलः। कृषीवलः। दन्तावलः। <<रजःकृष्या — सुतिपरिषदो वलच्>> ५.२.११२ इति वलच्प्रत्ययो गृह्यते, न प्रातिपदिकम्। अनुत्साहभ्रातृपितृणामित्येव — उत्साहवलः। भ्रातृवलः। पितृवलः॥
वलप्रत्यये परे दीर्घः स्यात्संज्ञायाम् । कृषीवलः ॥
<<वले>> - वसे । कृषीवल इति । कृषिरस्यास्तीति विग्रहेरजःकृष्यासुती॑त्यादिना वलच् ।
वलच्प्रत्ययो गृह्यत इति । वक्ष्यमाणेन मतुपा साहर्यात् । तेन वल संवरणे इत्यतः पचाद्यचि यत्प्रातिपदिकं तत्र दीर्घो न भवति । अण इत्येव - भर्तुवलः ॥