केशाद्वोऽन्यतरस्याम्

5-2-109 केशात् वा अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्

Sampurna sutra

Up

'तत् अस्य, अस्मिन् अस्तीति' (इति) केशात् वः अन्यतरस्याम्, मतुँप् अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थात् 'केश' शब्दात् 'व' तथा 'मतुँप्' - द्वावपि प्रत्ययौ विकल्पेन भवतः । पक्षे 'इनि' तथा 'ठन्' प्रत्ययौ अपि भवतः ।

Kashika

Up

केशशब्दाद् वः प्रत्ययो भवति मत्वर्थेऽन्यतरस्याम्। ननु च प्रकृतमन्यतरस्यांग्रहणमनुवर्तत एव? मतुप्समुच्चयार्थं तदित्युक्तम्। अनेन त्विनिठनौ प्राप्येते। ततश्चातूरूप्यं भवति। केशवः, केशी, केशिकः, केशवानिति॥ वप्रकरणेऽन्येभ्योऽपि दृश्यत इति वक्तव्यम्॥ मणिवः। हिरण्यवः। कुररावः। कुमारावः। कुञ्जावः। राजीवम्। इष्टकावः। विम्बावः॥ अर्णसो लोपश्च॥ अर्णवः॥ छन्दसीवनिपौ च वक्तव्यौ॥ वश्च मतुप् च। र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ (ऋ० १०.१०२.२)। सु॒म॒ङ्ग॒लीरि॒यं व॒धूः (ऋ० १०.८५.३३)। वनिप् — म॒घवा॑नमीमहे (ऋ०१०.१६७.२)। वकारमतुपौ च। उद्वा च उद्वती च॥ मेधारथाभ्यामिरन्निरचौ वक्तव्यौ॥ मेधि॑रः (ऋ० १.३१.२)। र॑थि॒रः (ऋ० ३.१.१७)॥

Siddhanta Kaumudi

Up

प्रकृतेनमान्यतरस्यां ग्रहणेन मतुपि सिद्धे पुनर्ग्रहणमिनिठनोः समावेशार्थम् । केशवः । केशी । केशिकः । केशवान् ।<!अन्येभ्योऽपि दृश्यते !> (वार्तिकम्) ॥ मणिवो नागविशेषः । हिरण्यवो निधिविशेषः ।<!अर्णसो लोपश्च !> (वार्तिकम्) ॥ अर्णवः ॥

Laghu Siddhanta Kaumudi

Up

केशवः। केशी। केशिकः। केशवान्। <<अन्येभ्योऽपि दृश्यते>> (वार्त्तिकम्) । मणिवः। <<अर्णसो लोपश्च>> (वार्त्तिकम्)। अर्णवः॥

Neelesh Sanskrit Detailed

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यनेन मतुँप्-प्रत्ययः भवति । अस्य विकल्पेन अदन्तेभ्यः शब्देभ्यः <<अत इनिठनौ>> 5.2.115 इत्यनेन 'इनि' तथा 'ठन्' प्रत्ययौ अपि भवतः । एतेषाम् सर्वेषामपि विकल्पेन 'केश' शब्दात् 'व' इति प्रत्ययः वर्तमानसूत्रेण उच्यते । यथा - केशाः (mane, hairs) सन्ति अस्य सः = केश + व → केशवः । पक्षे अन्ये त्रयः प्रत्ययाः अपि भवन्ति - 1. केश + मतुँप् - केशवत् । 2. केश + इनि - केशिन् । 3. केश + ठन् → केशिक । विशेषः - अस्मिन् सूत्रे 'अन्यतरस्याम्' इति शब्दः स्वीक्रियते । वस्तुतः <<प्राणिस्थादातो लजन्यतरस्याम्>> 5.2.96 इत्यस्मात् 'अन्यतरस्याम्' इति शब्दः अनुवर्तते एव । इत्युक्ते, अत्र सम्पूर्णसूत्रे द्विवारमन्यतरस्याम् इति ग्रहणम् कृतमस्ति । एतेभ्याम् एकः 'अन्यतरस्याम्' शब्दः 'मतुँप्' प्रत्ययस्य वैकल्पिकविधानार्थम् , तथा अपरः 'अन्यतरस्याम्' शब्दः <<अत इनिठनौ>> 5.2.115 इत्यनेन प्राप्यमानयोः 'इनि' तथा 'ठन्' प्रत्यययोः वैकल्पिकविधानार्थमस्तीति व्याख्यानेषु स्पष्टीभवति । अतएव अत्र आहत्य चत्वारि रूपाणि भवन्ति - केशव, केशवत्, केशिन्, केशिक । अत्र कानिचन वार्त्तिकानि ज्ञेयानि - 1. <!वप्रकरणे अन्येभ्योऽपि दृश्यते इति वक्तव्यम्!> । इत्युक्ते, मतुबर्थयोः अस्मिन् सूत्रे पाठितः 'व' प्रत्ययः अन्येभ्यः शब्देभ्यः अपि कृतः दृश्यते । यथा - अ) मणिः अस्ति अस्मिन् सः मणिवः सर्पः । आ) हिरण्यमस्ति अस्मिन् तत् हिरण्यवं रत्नम् । इ) कुररः अस्ति अस्य सः कुररावः । अत्र प्रक्रियायामङ्गस्य दीर्घादेशः अपि निपात्यते । (उ) कुञ्जः अस्ति अस्य सः कुञ्जावः । प्रक्रियायामङ्गस्य दीर्घादेशः अपि निपात्यते । (ऊ) राजिः अस्य अस्ति सः राजीवः । प्रक्रियायामङ्गस्य दीर्घादेशः अपि निपात्यते । (ए) इष्टकाः सन्ति अस्मिन् सः इष्टकावः । (ऐ) बिम्बमस्ति अस्य सः बिम्बावः । 2. <!अर्णसो लोपश्च!> । 'अर्णस्' (foamy waves) शब्दात् वर्तमानसूत्रेण 'व' प्रत्ययः भवति, तथा च 'अर्णस्' शब्दस्य सकारस्य प्रक्रियायाम् लोपः भवति । अर्णांसि सन्ति यस्मिन् सः अर्णवः महासागरः । 3. <!छन्दसीवनिपौ च वक्तव्यौ!> । वेदेषु केभ्यश्चन शब्देभ्यः 'ई', 'वनिप्', 'व', 'मतुँप्' - एते प्रत्ययाः मतुबर्थयोः कृताः दृश्यन्ते । यथा - अ) 'ई' प्रत्ययः - सुष्ठु मङ्गलमस्याः अस्ति सा सुमङ्गली वधूः । यथा - 'वासे वासे सुमङ्गलीरियम् वधूरितीक्षकानीक्षेत्' (आश्वलायनगृह्यसूत्राणि) । अत्र 'ई' प्रत्ययान्तशब्दः पुनः स्त्रीप्रत्ययं न स्वीकरोति, अतः 'सुमङ्गली' इत्येव स्त्रीलिङ्गे अपि प्रयुज्यते । आ) 'वनिप्' प्रत्ययः - मघः (power) अस्य अस्ति सः मघवान् इन्द्रः । अत्र 'वन्' इति प्रत्ययः अस्तीति काशिकायामुच्यते । यथा - 'इमं नो यज्ञमिह बोध्या गहि स्पृधो जयन्तं मघवानमीमहे' (ऋग्वेदे 10.167.2) 4. <!मेधारथाभ्याम् इरन्निरचौ वक्तव्यौ!> । मतुबर्थयोः वेदेषु केषुचन स्थलेषु 'मेधा' शब्दात् 'इरन्' तथा 'रथा' शब्दात् 'इरच्' प्रत्ययः कृतः दृश्यते । मेधा + इरच् → मेधिर । रथ + इरच् → रथिर । यथा - रथः अस्य अस्ति सः = रथ + इरच् → रथिर ।यथा (ऋग्वेदे 3.26.1) - सु॒दानुं॑ दे॒वं र॑थि॒रं व॑सू॒यवो॑ गी॒र्भी र॒ण्वं कु॑शि॒कासो॑ हवामहे ।

Balamanorama

Up

<<केशाद्वोऽन्यतरस्याम्>> - केशाद्रोऽन्यतरस्याम् । 'मत्वर्थे' इति शेषः । नन्विहाऽन्यतरस्याङ्ग्रहणं व्यर्थं, समर्थानामिति वाग्रहणेनैव वाक्यस्य सिद्धत्वात् । नच महाविभाषया अपवादेन मुक्ते औत्सर्गिकस्याऽप्रवृत्तेःपारेमध्ये षष्ठआ वे॑त्यत्रोक्तत्वादिह मतुपोऽप्रवृत्त्यापत्तौ तत्प्रवृत्त्यर्थमन्यतरस्याङ्ग्रहणमिति वाच्यं,प्राणिस्था॑दिति सूत्रादन्यतरस्याङ्ग्रहणस्य समुच्चयार्थकस्याऽनुवृत्त्यैव तत्सिद्धेरित्यत आह — प्रकृतेनेति । इनिठनोरिति । इनिठनोरपीत्यर्थः । अन्यथासिध्मादिभ्यश्चे॑त्यत्रेव मतुबेव समुच्चीयेत, नत्विनिठनाविति भावः । तथाच वप्रत्यये इनिठनोर्मतुपि च चत्वारि रूपाणीत्याह — केशव इत्यादि । अन्येभ्योऽपीति । वार्तिकमिदम् । केशादन्येभ्योऽपि मत्वर्थे वो दृश्यत इत्यर्थः । अर्णस इति । वार्तिकमिदम् । अर्णसो वप्रत्ययः प्रकृतेः सकारस्य लोपश्चेत्यर्थः ।अर्णव इति । अर्णः=जलम् । तत्प्रभूतमस्मिन्नस्तीति विग्रहः । इदं तु वार्तिकं भाष्ये न दृश्यते ।

Padamanjari

Up

मतुप्समुच्चयार्थं तदित्युक्तमिति। एतच्च'सिध्मादिभ्यश्च' इत्यत्रैव व्याख्यातम्। वप्रकरण इति। प्रकरणमुप्रस्तावः। मणिवःउनागविशेषः। हिरण्यवःउनिधिविसेषः, कुञ्जरविशेष इत्यन्ये। विम्बावः, कुरराव इति। ठन्येषामपि दृश्थतेऽ इति दीर्घः। राजीव इति।'कृदिकारादक्तिनः' इति ङीषन्तात्प्रत्ययः। अर्णव इति। अर्णमूदकम्, ठर्तेरसुन्नुट् चऽ। च्छन्दसीवनिपौ चेति। चकाराद्वलश्च, अन्यतरस्यांग्रहणानुवृतेस्तु मतुप्, तदाह - वश्च मतुप् चेति। रथीरिति। रथोऽस्यास्तीत्यर्थः। सुमङ्गलीरिति। सुष्ठुअमङ्गलम्,'सुः पूजायाम्' इति प्रादिसमासः, ततोऽनेन मत्वर्थीय ईकारः, लाघवाद्बहुव्रीहिणा भवितव्यमिति न्यायश्छान्दसत्वादाश्रितः। मघवानमिति। मघं धनं तदस्यास्तीति वनिप्। मतुपि तु मघवच्छब्दः, किमर्थं तर्हि'मघवा बहुलम्' इति ? तत्रैव वक्ष्यामः। उद्वा चेति। उच्छब्दादुद्गताभिधायिना वप्रत्यये टाप्। उद्वतीति। मतुपः'झयः' इति वत्वम्, ङीप्। मेधारथाभ्यामिति। इदमपि छन्दोविषयम् ॥