द्युद्रुभ्यां मः

5-2-108 द्युद्रुभ्यां मः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्

Sampurna sutra

Up

index: 5.2.108 sutra: द्युद्रुभ्यां मः


'तत् अस्य, अस्मिन् अस्तीति' (इति) द्यु-द्रुभ्याम् मः

Neelesh Sanskrit Brief

Up

index: 5.2.108 sutra: द्युद्रुभ्यां मः


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'दिव्'शब्दात् तथा 'द्रु' शब्दात् प्रथमासमर्थात् 'म' प्रत्ययः भवति ।

Kashika

Up

index: 5.2.108 sutra: द्युद्रुभ्यां मः


द्युद्रुशब्दाभ्यां मः प्रत्ययो भवति मत्वर्थे। द्युमः। द्रुमः। रूढिशब्दौ एतौ। रूढिषु मतुप् पुनर्न विकल्प्यते।

Siddhanta Kaumudi

Up

index: 5.2.108 sutra: द्युद्रुभ्यां मः


द्युमः । द्रुमः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.108 sutra: द्युद्रुभ्यां मः


तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण 'मतुँप्' प्रत्ययः विधीयते । अस्य अपवादरूपेण प्रथमासमर्थात् 'दिव्' (= स्वर्ग ) तथा 'द्रु' (= शाखा / branch) एताभ्याम् शब्दाभ्याम् म-प्रत्ययः भवति । क्रमेण पश्यामः -

  1. द्युः अस्मिन् अस्ति सः ('द्युः' इति दिव्-शब्दस्य प्रथमैकवचनम् । अतः अत्र प्रातिपदिकम् 'दिव्' इति अस्ति ।]

= दिव् + म

→ द्यु + म [दिव उत् 6.1.131 इति पदसंज्ञकस्य दिव्-शब्दस्य उकारादेशः । ]

→ द्युम

द्युः अस्मिन् अस्ति सः द्युमः । आकाशः इत्यर्थः ।

विशेषः - अस्मिन् सूत्रे 'द्यु' इति निर्देशः 'दिव्' इत्यस्य प्रथमैकवचनस्य निर्देशः अस्तीति व्याख्यानात् स्पष्टीभवति ।

  1. द्रुवः (शाखाः) अस्मिन् सन्ति सः = द्रु + म → द्रुमः । वृक्षः इत्यर्थः ।

Balamanorama

Up

index: 5.2.108 sutra: द्युद्रुभ्यां मः


द्युद्रुभ्यां मः - द्युद्रुभ्यां मः ।दिव उ॑दिति कृतोत्वस्य दिव्शब्दस्य 'द्यु' इति निर्देशः । दिव्शब्दात् द्रुशब्दाच्च मप्रत्ययः स्यादित्यर्थः । द्युमः द्रुम इति । रूढशब्दावेतौ ।

Padamanjari

Up

index: 5.2.108 sutra: द्युद्रुभ्यां मः


द्यौशब्दोऽप्युत्पन्नं प्रातिपदिकमुकारान्तम्। रूढिषु च मतुब्न विकल्प्यते इति। तदर्थस्य मतुपाभिधातुमशक्यत्वात् ॥